________________
४०
स्वरूपेण युक्तरूपत्वात् ॥३४॥ एतदेव व्यनक्ति
-
३-चैत्यवन्दनविधि-पञ्चाशकम्
दव्वेणं टंकेण य, जुत्तो छेओ हु रूवगो हो । टंकविहूणो दव्वे वि न खलु एगंतछेओ त्ति ॥ १२९॥
गाथा - ३५-३८
३/३५
द्रव्येण रूप्यसुवर्णादिना, टङ्केन च लक्षणेन च रेखाविन्यासरूपेण युक्तः समन्वित: छेक एव रूपका भवति । हुरेवकारार्थः टङ्कविहीनो लक्षणविहीनो, द्रव्येऽपि रूपादौ सत्यपि, न खल्वैकान्तश्छेक इति नैव व्यवहारावतारी ॥३५॥
अद्दव्वे टंकेण वि, कूडो तेण वि विणा उ मुद्दति । फलमेत्तो एवं चिय, मुद्वाण पयारणं मुत्तुं ॥ १३०॥
३/३६
अद्रव्ये द्रव्याभावे, टङ्केनापि लाञ्छनेनापि कूट:-असत्य:, तृतीयभङ्गपतितः तेनापि विना टङ्केन च द्रव्येण च विप्रयुक्तो, मुद्रेति चिह्नप्रायः फलं साध्यम्, अतो वन्दनाया:, एवमेव, भङ्गानुपूव्यैव उभयसम्पन्नः सम्पूर्णफलमितरथा विकलम् । मुग्धानामज्ञानानाम्, प्रतारणं (वञ्चनम्अटी.) मुक्त्वा, ते ह्यन्यथा प्रतार्यन्त एव ॥ ३६ ॥ १ एयं चिय अटी. ।
तं पुण अणत्थफलयं, नेहाहिगयं जमणुवओगि त्ति । आयगयं चिय एत्थं, चिंतिज्जइ समयपरिसुद्धं ॥ १३१ ॥
३/३७
तत्पुनर्वन्दनम् अनर्थफलदं स्वपरयोः नेहाधिकृतं नात्र प्रस्तुतम्, यदनुपयोगीति यस्मात्, तन्नोपयुज्यते। परमार्थविचारे, आत्मगतमेवात्र चिन्त्यते वन्दनम्, समयपरिशुद्धमागमविशुद्धम् न तु परेषामन्यथाकरणे परिवादः करणीय इति तात्पर्यम् ॥३७॥
एवं छेक-कूटकरूपकज्ञातं वन्दनायां योजयति -
भावेणं वण्णादिहिं, चेव सुद्धेहिं वंदणा छेया ।
मोक्खफल च्चिय एसा, जहोइयगुणा य नियमेणं ॥१३२॥
३/३८
भावेन सम्यक्त्वेनोपयोगेन च, वर्णादिभिश्चैवाऽक्षराऽभिव्याहाराऽर्थैः शुद्धैः अविपरीतैरुपलक्षिता वन्दना छेका शुद्धा प्रशतेत्यर्थः । मोक्षफलैवैषा न संसारफला भावक्रियागर्भा, यथोदिगुणा च शास्त्रप्रतिपादितगुणाव्यभिचारिणी च, नियमेन नियोगेन शास्त्रे गुणा विघ्नोपशमादयो वन्दनाया उच्यन्ते, तस्याः सम्भवन्तीति भावः ||३८||