________________
गाथा - ३१-३४
३-चैत्यवन्दनविधि-पञ्चाशकम्
इत्तो उ विभागाओ, अणादिभवदव्वलिंगओ चेव । निउणं निरूवियव्वा, एसा जह मोक्खहेउ ति ॥ १२५ ॥
३/३१
अतस्तु [इतस्तु अटी.] विभागादभिन्नग्रन्थेर्भाववन्दना [या] असम्भवादित्याकूतम् अनादिभवद्रव्यलिङ्गतश्चैवानादौ संसारेऽनेकशो द्रव्यलिङ्गावाप्तेः, तत्र च प्रायश: सकलक्रियानुष्ठानात् तदन्तर्गतत्वाच्च, वन्दनाया न प्रागसम्भव इति हृदयम्, निपुणं सूक्ष्मबुद्ध्या, निरूपयितव्यालोचनीया, एषा वन्दना, यथा मोक्षहेतुरिति येन प्रकारेण मोक्षकारणत्वेन व्यवस्थिता ॥३१॥
किमित्येवं निरूपणीया यत आह
-
नो भावओ इमीए, परो वि हु अवड्डपोग्गला अहिगो । संसारो जीवाणं, हंदि पसिद्धं जिणमयम्मि ॥ १२६ ॥
३९
३/३२
नो नैव भावता भावमाश्रित्य अस्यां भाववन्दनायां सत्याम्, परोऽपि उत्कृष्टोऽपि, हुर्वाक्यालङ्कारे, अपार्थपुद्गलादित्यपार्धपुद्गलपरिवर्तात्, समयप्रसिद्धात्, अधिकोऽभ्यधिको दीर्घतर इत्यर्थः । संसारो जीवाना प्रतिपतितसम्यग्दर्शनानामपि, संसारे विपरिवर्तमानानामपि । हन्त (उपप्रदर्शने अटी.) प्रसिद्धं जिनमते, अतो नैषा प्रदीर्घसंसारस्य सम्भवति ॥३२॥
अन्यथैषा कार्यकारिणीत्याह -
इय तंतजुत्तिओ खलु, निरूवियव्वा बुहेहिं एस त्ति ।
न हु सत्तामेत्तेणं, इमीए इह होति निव्वाणं ॥१२७॥
३/३३
इति तन्त्रयुक्तितः खल्वागमन्यायादेव, निरूपयितव्या बुधैरेषेति जिज्ञासनीयैषा वन्दना, न हु नैव सत्तामात्रेण यस्याःकस्याश्चिन्निर्बीजाया इतिभावोऽस्या वन्दनायाः, इह प्रक्रमे, भवति निर्वाणं नैव भवतीत्यर्थः । तस्माद्विशिष्टैव परिमितसंसारस्य निर्वाणाङ्गम् ॥३३॥
इहैवाभ्युच्चयमाह -
किंचेह छेयकूडग- रुवगनायं भांति समयविऊ ।
तंतेसु चित्तभेयं, तंपि हु परिभावणीयं ति ॥१२८॥
३/३४
2
किञ्चेह वन्दनायाम्, छेको व्यवहारयोग्यः स्वकार्यकारी, कूटकस्तद्विपरीतः स चासौ रूपकश्च तद् ज्ञात तदुदाहरणम् भणन्ति प्रतिपादयन्ति, समयविदः सिद्धान्तवेदिनः, तन्त्रेष्वागमेषु चित्रभेदं नानाप्रकारम्, तदपि ज्ञातम् । हुर्वाक्यालङ्कारे [भिन्नक्रमश्चेति-अटी. ] । परिभावनीयमिति