________________
३८
३-चैत्यवन्दनविधि-पञ्चाशकम् गाथा-२८-३० विविदिषा भेदा यस्याः योनेः स तथा । यद् यस्मात्प्रायशस्तु योनिरिति धर्मयोनिरिति । "धृतिः श्रद्धासुखा विविदिषा विज्ञप्तिरिति तत्त्व-धर्मयोनयः[ ] इति वचनात्। सद्ज्ञानाद्युदये सम्यग्ज्ञानाद्युत्पत्ती, प्रतिष्ठिता योगशास्त्रेषु प्रसिद्धेष्वित्यर्थः ॥२७॥"
इयं च जिज्ञासा कदा भवतीत्याह - पढमकरणोवरि तहा, अणभिणिविट्ठाण संगया एसा । तिविहं च सिद्धमेयं, पयडं समए जओ भणियं ॥१२२॥ ३/२८
प्रथमकरणस्य यथाप्रवृत्तकरणस्य उपर्युपरिष्टात्, तथानभिनिविष्टानामभिनिवेशरहितानाम्, सङ्गतैषा युक्तरूपा, त्रिविधं च सिद्धमेतत् करणम्, प्रकटं समये सिद्धान्ते, यतो भणितमुक्तम् ॥२८॥
एतदेव त्रैविध्यमाह - करणं अहापवत्तं, अपुव्वमणियट्टि चेव भव्वाणं । इयरेसिं पढम चिय, भण्णइ करणं ति परिणामो ॥१२३॥ ३/२९
करणमध्यवसायरूपम्, यथाप्रवृत्तं स्वाभाविकमनादिसंसारव्यवहारप्रवृत्तमभिन्नग्रन्थेरिहापूर्वकरणादधस्तात् सकलमेव गृह्यते । अपूर्वमित्यपूर्वकरणम्, यद्बलेन ग्रन्थि भिनत्ति । अनिवत्र्येतच्च सम्यक्त्वप्राप्तेर्ननिवर्तत इत्यनिवति । एतच्च सम्यक्त्वोत्पत्तेरधस्ताद्, यतोऽनिवृत्तिकरणं शिरसि सम्यक्त्वमवाप्नोति एतत्करणत्रयं, भव्यानां भाविनी सिद्धिरेषामिति, भव्यसिद्धय इति वक्तव्ये सिद्धिपदलोपाद् भव्या इत्युक्तम्, योग्यानां वा, इतरेषामभव्यानाम्, प्रथममेव यथाप्रवृत्तमेव भण्यत अभिधीयते । करणमित्यनेन शब्देन परिणामा जीवाध्यवसायः, सत्त्वाध्यवसायस्थानान्येतानीत्युक्तं भवति ॥२९॥
एषामेव विभागं प्रदर्शयन्नाह - जा गंठी ता पढम, गंठिं समइच्छओ भवे बितियं । अणियट्टीकरणं पुण, सम्मत्तपुरकडे जीवे ॥१२४॥ ३/३०
यावद्ग्रन्थिन्थिर्भेदस्थानम्, तावत् प्राक्कालभावि । प्रथममिति, यथाप्रवृत्तम्, ग्रन्थिधनरागद्वेषपरिणामलक्षणम्, समतीच्छतः समतिक्रामतो भिन्दानस्येत्यर्थः । भवेद्वितीयमपूर्वकरणम्, अनिवृत्तिकरणं पुनः प्रागुक्तं समयोक्तस्वरूपं वा पुरस्कृतसम्यक्त्वे प्राक्कृते, पूर्वाऽपरनिपातोऽतन्त्रमितिकृत्वोक्तम्, सम्यक्त्वपुरस्कृते जीव आत्मनि भवेदिति, यत एवं करणत्रयमुपवर्तितम्
॥३०॥