________________
गाथा - २४-२७
३-चैत्यवन्दनविधि-पञ्चाशकम्
३७
सकृत् सञ्जातो भावो भावान्तरं करोति [ ११तमी गाथायां ] इत्युक्तं प्राग् भावरहित उपयोगोऽप्यनुपयोग इति वा वेदितम्, तत्र किमर्थमयं भाव एव स्तूयत इत्याह
खाओवसमिगभावे, दढजत्तकयं सुहं अणुट्ठाणं ।
परिवडियं पि हु जायइ, पुणो वि तब्भाववुड्डिकरं ॥ ११८ ॥ ३/२४
क्षायोपशमिकभावे कर्मक्षयोपशमनिर्वृत्तपरिणामे, दृढयत्नकृतं बलवत्प्रयत्नसम्पादितम्, शुभमनुष्ठानं कुशलकर्तव्यं चैत्यवन्दनादि, प्रतिपतितमपि कथञ्चित्कर्मदोषाद्, [हु शब्दोऽवधारणार्थः, अटी.]भाव - क्रियाभ्यां जायते [ एव] पुनरपि कालान्तरे, तद्भाववृद्धिकरं प्राक्समासेऽपि तत् क्षायोपशमिकवन्दनादिभावकरम्, अतो भावः प्रशस्यते ॥२४॥
उक्तमेवार्थं दृढयन्नाह -
अणुहवसिद्धं एयं, पायं तहजोगभावियमईणं । सम्ममवधारियव्वं, बुहेहिं लोगुत्तममईए ॥ ११९॥
३/२५
अनुभवसिद्धमेतत् स्वसंवेदनसिद्धमेतत्, पूर्वोक्तं शुभानुष्ठानं पुनरपि जायत इति प्रायो बाहुल्येन तथायोगभावितमतीनां विशिष्टधर्मव्यापारवासितधियाम् सम्यगवधारयितव्यं सम्प्रधारणीयम् बुधैर्विद्वद्भिः, लोकोत्तममत्या संज्ञानगर्भया ॥२५॥
किं पुनरानन्तर्येण भाववन्दनाया लिङ्गमित्याह -
जिण्णासा वि हु एत्थं, लिंगं या हंदि सुद्धा । निव्वाणंगनिमित्तं, सिद्धा एसा तयट्ठीणं ॥ १२०॥ ३/२६
जिज्ञासाऽपि, अपिशब्दात् केवलं वेलाविधान-तद्गतचित्तादिः, अत्र प्रक्रमे लिङ्गं चिह्नम् एतस्या वन्दनायाः, हन्त शुद्धाया भावरूपाया इति यावत् । यस्मान्निर्वाणाङ्गनिमित्तं मोक्षकारणसम्यग्ज्ञानादिनिमित्तम् । सिद्धा एषा वन्दना, जिज्ञासा वा । तदर्थिनां वन्दनार्थिनां निर्वाणार्थिनां वा ॥२६॥
किमित्येवं जिज्ञासा शस्यते इत्याह
धिइसद्धासुहविविदिस भेया जं पायसो उ जोणि त्ति ।
सण्णाणादुदयम्मी, पइट्ठिया जोगसत्थेसुं ॥१२१॥
-
३/२७
तत्र धृतिः स्वास्थ्यमुद्वेगादिचित्तदोषपरिहारेण निर्वृतिः । श्रद्धा तत्त्वरुचिः । सुखा विशिष्टाऽह्लादरूपा उत्साहशक्तिबीजम् । वेदितुमिच्छा विविदिषा जिज्ञासा । धृतिः श्रद्धा सुखा