SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ___३-चैत्यवन्दनविधि-पञ्चाशकम् गाथा-२२-२३ मुक्ताशुक्तिर्मुद्रा समौ प्रगुणौ, न वैषम्येन व्यवस्थितौ, यत्र यस्याम्, भवतः समवतिष्ठते । गर्भितौ न सर्वथा नीरन्ध्रौ हस्तौ पाणी, तौ पुनर्ललाटदेशे लग्नौ, अन्येत्वलग्नाविति ॥२१॥ [१ दो वि-अटी. ।] प्रणिधानं मुक्ताशुक्त्येत्युक्तम्, तद्वन्दनायां यथाविषयमभिधातुमाह - - सव्वत्थ वि पणिहाणं, तग्गयकिरियाभिहाणवण्णेसु । अत्थे विसए य तहा, दिटुंतो छिन्नजालाए ॥११६॥ ३/२२ सर्वत्रापि सर्वेष्वेव, वन्दनास्वरूपाऽऽलम्बनेषु, प्रणिधानमैकाग्र्यं विधेयमिति शेषः । तद्गता चासौ क्रिया च, वन्दनक्रिया, अभिधानमभिव्याहार उच्चारणविशेषः । स चोदात्तादिवर्णधर्मो ग्राह्यः, वर्णाक्षराणि तद्गतान्येव, तेषु तद्गतक्रियाभिधानवर्णेषु, अर्थे वन्दनासूत्राभिधेयविषये, च तथा, प्रतिमादौ भावालम्बनभूते, कोऽत्र प्रणिधानकरणे साध्यार्थस्योपमाभूते दृष्टान्तः ? इत्याह-दृष्टान्तः छिन्नज्वालया यथा छिन्नज्वाला, उपरिष्टात् स्वक्षेत्रावगाह्य, दग्धाश्च ज्वालायां न सम्बद्धा, किन्तु स्वरूपक्षेत्रविभागप्रतिनियताऽप्रतिनियतकालवर्तिन्येव च, नोपरिष्टान्नाधस्तात् स्वकालात् प्रकाशते, एवमिदमपि प्रणिधानम्, स्वेष्वेव विषयभूतेषु क्रियादिषु प्रतिबद्धस्वभावम्, नान्यरूपादिविषयकषायस्वरूपसंस्पर्शितदन्यसङ्गविरहात् तस्यामेव चावस्थायां सम्भवतीति छिन्नज्वालो[ज्वालयो]पमीयते ॥२२॥ ननु किमेतस्मिन् प्रणिधाने सति परिपूर्णं भवति भाववन्दनं न वेत्येतदाशङ्क्याह - न य तत्थ वि तदणूणं, हंदि अभावो न ओवलंभो वि । चित्तस्स वि विण्णेओ, एवं सेसोवओगेसु ॥११७॥ ३/२३ न च नैव तत्राप्युपवर्णितप्रणिधानेऽपि, तद् भाववन्दनम्, अन्यूनं सम्पूर्णेनोपयुक्तकरणमात्रेणैव भाववन्दनमिति यावत् । कुत इत्याह-हन्तेति प्रत्यवधारणे अभावो भावरहितः, सम्यक्त्वविकलो न च नैवोपलम्भोऽप्युपयोगोऽपि चित्तस्यापि सम्बन्धी विज्ञेयः, उपयुक्तानुष्ठानस्यापि सम्यग्दर्शनविकलस्य द्रव्यानुष्ठानत्वात्, सम्यग्दृष्टेरेव हि भावानुष्ठानमिष्यत। न केवलमेष उपयोगप्रकारश्चैत्यवन्दनायामेवेति, सर्वत्रगं न्यायमुपदर्शयन्निदमाह-एवं शेषोपयोगेषु-अपि शब्दोऽत्राभिसम्बन्धनीयः, प्रागुक्तो द्रव्यावश्यकभावावश्यकमित्यादिषु समयोक्तव्यापारेषु सर्वेष्वेव नोपयोगमात्रेणैव भावानुष्ठानम्, किन्तु सम्यग्दृष्टरुपयुक्तस्येत्यैदम्पर्यमवसेयम् ॥२३॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy