________________
गाथा-१८-२१
३-चैत्यवन्दनविधि-पञ्चाशकम् वन्दन जिनमुद्रया निर्दिष्टमाणया । प्रणिधानं चित्तैकाग्र्यम्, “शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणाम" इति [ ] वचनादिह पुनर्वाङ्मयं मनोमयं च विचित्ररूपम्, पुरुषयोग्यता-पेक्षया प्रमत्ताऽप्रमत्तमभिगृह्यते, तद् मुक्ताशुक्त्या विधेयमिति शेषः ॥१७॥
पञ्चाङ्गप्रणिपातं व्याचष्टे - दो जाणू दोण्णि करा, पंचमंगं होइ उत्तमंगं तु । सम्मं संपणिवाओ, णेओ पंचंगपणिवाओ ॥११२॥ ३/१८
द्वेजानुनी, द्वौ करी, पञ्चमकं भवत्युत्तमाकंतु शिरः । सम्यक् सुश्लिष्टतया, सम्प्रणिपातो निरवद्यप्रणामः ज्ञेयः पञ्चाङ्गप्रणिपातः, एभिः पञ्चभिरङ्गैरुपलक्षितत्वात् ॥१८॥
साम्प्रतं योगमुद्रामाह - अण्णोण्णन्तरिअंगुलि-कोसाकारेहिं दोहिं हत्थेहिं । पिट्टोवरि कोप्परसंठिएहि तह जोगमुद्द त्ति ॥११३॥ ३/१९
अन्योन्यान्तरितागुलिकोशाकाराभ्यां द्वाभ्यां हस्ताभ्यामुदरस्योपरि कोप्परसंस्थिताभ्याम् (कूर्पराभ्यां कुहणिकाभ्यां संस्थितौ व्यवस्थितौ । अटी.)। तथा योगमुद्रेति, योगो ध्यानं यथोक्तम् -
आगमेनानुमानेन, योगाभ्यासरसेन च । त्रिधा प्रकल्पयन् प्रज्ञां, लभते तत्त्वमुत्तमम् ॥१॥ [ योगदृष्टिसमुच्चय गाथा-१०१] धर्मव्यापारो वा तद्विषया मुद्रा तथाविधव्यवधानाङ्गुलिरचनारूपा विज्ञेयेति शेषः ॥१९॥ अधुना जिनमुद्रामाह - चत्तारि अंगुलाई, पुरओ ऊणाई जत्थ पच्छिमओ । पायाणं उस्सग्गो, एसा पुण होइ जिणमुद्दा ॥११४॥ ३/२०
चत्वार्यङ्गलानि स्वकीयान्येव, पुरतोऽग्रत ऊनानि किञ्चिन्न्यूनानि । यत्र यस्याम्, पश्चिमतः पादयारन्तरे पृष्ठतः, उत्सर्गः कायोत्सर्गः, एवंस्थितिका एषा पुनर्भवति जिनमुद्रा । य एवंविधः कायोत्सर्गः स एव जिनमुद्रा वर्तते ॥२०॥
साम्प्रतं मुक्ताशुक्ति[मुद्रा]मभिधित्सुराह - मुत्तासुत्ती मुद्दा, समा जहिं होति गब्भिया हत्था । ते पुण ललाडदेसे, लग्गा अण्णे अलग्ग त्ति ॥११५॥ ३/२१