________________
४२
३-चैत्यवन्दनविधि-पञ्चाशकम् गाथा-४३-४६ एवं तावदन्यदीयमतमधिकृत्योवतमेतदपि कथञ्चिद् युज्यत एवेत्युपदर्शयन्नाह - . एवं पि जुज्जइ च्चिय, तदणारंभाउ तप्फलं व जओ । तप्पच्चवायभावो वि, हंदि तत्तो न जुत्त त्ति ॥१३७॥ ३/४३
एतदपि लौकिकत्वं युज्यत एव वन्दनायाः तदनारम्भात् तस्या जैनवन्दनाया अनारम्भादप्रस्तुतत्वात् तत्फलमिव स्वर्गसम्पत्ति-क्षुद्रोपद्रवहान्यादिफलमिवाराधनाजन्यं यतो यस्मात् तत्प्रत्यपायभावोऽपि विराधनाजन्य उन्मादादिभावोऽपि हन्त ततो वन्दनाया न युक्त इति न युक्तरूपः । इदमत्र हृदयम्-यदि जैनवन्दना प्रारब्धा भवेत् ततस्तत्फलमिष्टानिष्टरूपमाराधनविराधनजन्यं भवेद्, न च लौकिकवन्दनायां तदस्ति ततो लौकिक्येवैषा, यतः सम्यग्दृष्टेवितथक्रियायां प्रत्यपायसम्भवो, न त्वस्यां, तेन न जैनीति ॥४३॥
अत्रैव युक्तिमाह - जमुभयजणणसहावा, एसा विहिणेयरेहिं न उ अण्णा । ता एयस्साभावे, इमीगू एवं कहं बीयं ॥१३८॥ ३/४४
यद यस्मात् उभयजननस्वभावैषा सामग्रीभेदेनेष्टानिष्टफलजननस्वभावा जैनी वन्दना वर्तते। विधिना शास्त्रोक्तेन क्रियमाणा इतरैश्चाविधिभिरनेकप्रकार त्वन्या लौकिकी तथा ज्ञेया, प्रत्यवाययोर्हेतुः, परमार्थेन मिथ्यादृष्टिवन्दनायां स्वरूपस्यैवानारम्भात्, तत् तस्माद् एतस्य द्विविधस्यापि फलस्य अभावेऽस्या जैनवन्दनाऽवन्दनाविपरीतायाम् एवमुक्तनीत्या कथं बीजम् ॥४४॥ तम्हा उ तदाभासा, अण्णा एस त्ति नायओ णेया । मोसाभासाणुगया, तदत्थभावानिओगेणं ॥१३९॥ ३/४५
तस्मात्पूर्वोक्ताद्धेतोः, [तुशब्दोऽवधारणे-अटी.] तदाभासा तत्प्रतिच्छाया सैव जैनवन्दनेवाभासत इति तत्सदृशी । अन्या ततो भिन्ना एषेति लौकिक्येव न्यायतो ज्ञेया । मृषाभाषानुगता तदर्थभावानियोगेन नियमेन ॥४५॥
[१. कथमित्याह-तदर्थे वन्दनाभिधेयवस्तुनि, भावस्य सच्छ्रद्धानाद्यध्यवसायस्य, अनियोगोऽव्यापारः, तेन, अटी.]
सम्यग् वन्दनायाः [अभव्यानाम् अटी.] दुर्लभताप्रतिपादनायाह - सुहफलजणणसहावा, चिंतामणिमाइए वि नाभव्वा । पावंति किं पुणेयं, परमं परमपयबीयं ति ॥१४०॥ ३/४६