SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ गाथा -४-७ ३-चैत्यवन्दनविधि-पञ्चाशकम् साम्प्रतमपुनर्बन्धकलक्षणमाह - - पावं न तिव्वभावा, कुणइ न बहु मन्नए भवं घोरं । उचियट्ठिनं च सेवइ, सव्वत्थ वि अपुणबंधोति ॥ ९८ ॥ ३/४ पापं हिंसादि न तीव्रभावात् करोति, सामान्येन करोत्यपि तथाविधकर्मदोषात् न बहु मन्यते भवं घोरं संसारकारणोपरतचित्तत्वात् तीर्थकराद्याशातनादोषपरिहारेण, उचितस्थितिं च सेवते, यथोचितोपकारकरणेन सर्वत्रापि हीनादौ, अपुनर्बन्धक इत्येभिलिङ्गैर्लक्षणीयः ||४|| सम्यग्दृष्टिलिङ्गान्याह - सुस्सूस धम्मराओ, गुरुदेवाणं जहासमाहीए । वेयावच्चे नियमो, सम्मद्दिट्ठिस्स लिंगाई ॥९९॥ ३१ ३/५ शुश्रूषा श्रोतुमिच्छा धर्मशास्त्रविषया, गेयरागिकिन्नरगेयशुश्रूषाधिका जिज्ञासोत्तरकालभाविनो । धर्मरागो धर्मानुरागः कान्तारोत्तीर्णदरिद्रब्राह्मणहविःपूर्णाभिलाषातिरिक्तः । गुरुदेवानां परमपूज्यानां यथासमाधि स्वसमाध्यनतिक्रमेण, यथात्मनः पीडा न भवति, तत्पूजां कुर्वन्तस्तदादेशं वा, वैयावृत्त्ये व्यावृत्तभावे तत्कर्मणि वा, नियमो नियोगो वाऽवश्यं मयैतद्यथाकालं कर्तव्यमित्यवश्यंभावः, सम्यग्दृष्टेलिङ्गानि चिह्नान्येतानि ॥५॥ चारित्रिलिङ्गान्याह - मग्गणुसारी सड्डो, पण्णवणिज्जो कियापरो चेव । गुणरागी सक्कारंभसंगओ तह य चारिती ॥१००॥ ३/६ मार्गानुसारी चारित्रमोहनीयकर्मक्षयोपशमयोगादस्य च तत्त्वावासिं प्रत्यवन्ध्यकारणत्वात्, तथा श्राद्धः तत्प्रत्यनीकदर्शनमोहनीयह्रासातिशयात् तथा प्रज्ञापनीयो मार्गानुसारित्व- श्राद्धत्वाभ्यां समवबोधग्रहणयोग्यं तथा क्रियापरश्चैव स्वाध्याय-ध्याना -ऽहिंसादिक्रियाप्रधानश्चैव । गुणरागी विशुद्धाशयत्वात् प्रस्तुतेषु गुणेष्वन्येषु वा पूर्वेष्वनुरागवान् । शक्यारम्भसङ्गतो वन्ध्यारम्भभावनिवृत्तेः यदेव शक्यं कर्तुं तदेवारभते तथा च चारित्री चैवंविधो भवतीति ॥६॥ तेहिगारिणो इह, न उ सेसा दव्वओ वि जं एसा । इयऍ जोग्गयाए, संसा ण उ अप्पहाण त्ति ॥ १०१ ॥ ३/७ एतेऽपुनर्बन्धकादयस्त्रयोऽधिकारिण इह वन्दनायाम्, न तु शेषा सकृद्बन्धकादयस्तीव्रभावपापकरणादि चिह्नावसेयाः । प्रदीर्घसंसारिणः द्रव्यतोऽपि, यद् यस्माद् एषा वन्दना, पुनरितरस्या भाववन्दनायाः योग्यतायां सत्यां सैषा प्रदीर्घसंसारिगता, न तु नैव अप्रधानेति कृत्वा, योग्यतावाची
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy