________________
३-चैत्यवन्दनविधि-पञ्चाशकम् गाथा-८-१० द्रव्यशब्दस्तस्यां नास्तीति भावः ।।७।। १. सेसाण-अटी. ।
न य अपुणबंधगाओ, परेण इह जोग्गया वि जुत्त त्ति । न य न परेण वि एसा, जमभव्वाणं पि निद्दिट्टा ॥१०२॥ ३/८
नच नैव पुनरबन्धकात् परेण प्रागवस्थायाम् इह (भाववन्दनायाम्,-अटी.) योग्यताऽपि युक्तेति, संसारभूयस्त्वादेव । न च न परेणाप्येषा सामान्येन वन्दना शब्दक्रियारूपा, किन्त्वस्त्येव, यद् यस्माद् अभव्यानामपि निर्दिष्टागमे ॥८॥
किं लिङ्गसद्भावादेषा विज्ञेयेत्याह - लिंगाण तीए भावो, न तदत्थालोयणं न गुणरागो । नो विम्हओ न भवभयमिय वच्चासो य दोण्हं पि ॥१०३॥ ३/९
'लिङ्गानां तस्यां सामान्य[द्रव्य]वन्दनायाम्, भावः सद्भावोऽयं विज्ञेयः न तदर्थालोचनं न वन्दनासूत्रार्थमीमांसा । न गुणरागो न वन्दनाभिधेयानुष्ठेयगुणानुरागः, नो विस्मयो मयाऽप्राप्तपूर्वेयमनादौ संसारे प्राप्तेत्येवंरूपः प्रसादः [प्रमोदो अटी.] । न भवभयं संसारभयम्, विराधनायामिति कृत्वा, व्यत्यासश्च विपर्ययश्च । द्वयोरपि भाव-क्रिययोर्वन्दनागतयोः ॥९॥ (१. लिंगा ण-अटी.)
[१. 'लिंग'त्ति प्राकृते लिंगमतन्त्रम् इति [ ] वचनात् ..... अथवा लिङ्गानां भावः सत्ता, ....... अटी.]
साम्प्रतं द्रव्येतरवन्दनाविशेषाभिधित्सयाऽऽह - वेलाए विहाणम्मि य, तग्गयचित्ताइणा य विणणेओ । तव्वुड्डिभावऽभावेहि, तह य दव्वेयरविसेसो ॥१०४॥ ३/१०
वेलया प्रतिनियतकालरूपया, विधाने च सङ्गतवाक्-चेष्टारूपे सति, तद्गतचित्तादिना च वन्दनगतचित्तादिना। आदिशब्दाल्लेश्या-तदर्थोपयुक्तत्वादिपरिग्रहो विज्ञेयः, द्रव्येतरविशेषवन्दनाया इति सम्बन्धनीयम् । तवृद्धिश्च वन्दनागतवृद्धिश्च, प्रतिदिवसानुष्ठानरूपा, भावाभावश्च 'सम्यक्त्वसद्भावश्च तद्वृद्धिभावाभावौ ताभ्याम् । तथा चवञ्च द्रव्येतरविशेषो द्रव्यभाववन्दनागत विशेषः, अयमत्र वाक्यार्थो-वेलया-विधाने-तद्गतचित्तादिना तवृद्ध्याभावभावेन च भाववन्दना, एतद्वैकल्ये तु द्रव्यवन्दना ॥१०॥ (१. 'अथवा तद्वृद्धिश्च भावाभावश्च रोमाञ्चादिलिङ्ग्यभक्तिसद्भावः [वाऽभावः । अथवा 'तद्वृद्धिभावाभाव'श्चेति तद्वृद्धिभावाभावौ, ताभ्यामसद्भ्यां सद्भ्यां चेति गम्यम्' - अटी.)