SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ॥ तृतीयं चैत्यवन्दनविधि-पञ्चाशकम् ॥ प्रस्तुतदीक्षानन्तरमेव वन्दनं भवतीति तत्प्रतिपादनार्थमिदमाह नमिऊण वद्धमाणं, सम्मं वोच्छामि वंदणविहाणं । उक्कोसाइतिभेयं, मुद्दाविण्णासपरिसुद्धं ॥ ९५ ॥ ३/१ अस्या अपि प्रयोजनाद्यभिसन्धानं पूर्ववत्, नत्वा नमस्कृत्य गुरुकृतनाम्ना वर्धमानं 'अम्मापिउसंतिए वद्धमाण 'इति [ श्री कल्पसूत्रम् - सूत्र - १०८] वचनात् । सम्यग् वक्ष्याम्यागमानुसारेण, वन्दनविधानं चैत्यवन्दनस्य विधानं विधिमित्यर्थः । उत्कृष्टादित्रिभेदं पाठ - क्रिये भूयसी, समाश्रित्योत्कृष्ट-मध्यमेतरभेदम् । न तु भावतः तस्य स्वल्पस्याप्युत्कृष्टत्वाद् । भेदाच्च वक्ष्यमाणाद् वन्दनस्य त्रयो-मुद्राविन्यासपरिशुद्धम्, मुद्रा च वक्ष्यमाणास्तिस्रस्ताभिः परिशुद्धम् ॥१॥ तानेव त्रीन् भेदानाह - नवकारेण जहन्ना, दंडगथुइजुयल मज्झिमा णेया । संपूण्णा उक्कोसा, विहिणा खलु वंदणा तिविहा ॥ ९६ ॥ ३/२ नमस्कारेण जघन्या स्वल्पा लघ्वी वन्दना, दण्डक-स्तुतियुगलाभ्यां मध्यमा ज्ञेया दण्डकेनैकेन प्रणिपातदण्डकेन दण्डकैर्वा सकलस्तुतियुगलेन च प्रसिद्धेन मध्यमा वन्दना । उत्कृष्टा सम्पूर्णा पर्यन्तवर्तिप्रणिधानसहिता । विधिना खलु वन्दना त्रिविधा त्रिविधैवानेन प्रकारेण ॥२॥ प्रकारान्तरमधिकृत्याह - अहवा वि भावभेया, ओहेण अपुणबंधगाईणं । सव्वा वितिहा णेया, सेसाणमिमी न जं समए ॥९७॥ ३/३ अथवापि भावभेदादधिकारगताऽध्यवसायविशेषात् ओघेन सामान्येन, अपुनर्बन्धकादीनामादिशब्दात् सम्यग्दृष्टि - देश - सर्वचारित्रिपरिग्रहः । सर्वाऽपि त्रिधा ज्ञेया वन्दना शेषाणामपुनर्बन्धकात् पूर्वेषां सकृद्बन्धक - मार्गपतित-मार्गाभिमुखादीनामनधिकारिणां योग्यतावैकल्याद् इयं वन्दना, न नैव, यद् यस्मात् समये सिद्धान्ते प्रतिपादितेति गम्यते ॥३॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy