________________
२८ २-दीक्षाविधि-पञ्चाशकम्
गाथा-३९-४२ खल्वधिकृतगुणवृद्धिरेव, कुतो न्यायादित्याह-कारणतः कार्यभावेन । गुणवृद्धः कारणमधिकृतजीववीर्यं क्षयोपशमश्च । तच्च स्वफलनिवर्तने न व्यभिचरति । तेन गुणवृद्धिरेवेति स्थितम् ॥३८॥
साधर्मिकप्रीतिवृद्धिः कथं भवतीत्याह - धम्मम्मि य बहुमाणा, पहाणभावेण तयणुरागाओ । साहम्मियपीईए उ हंदि वुड्डी धुवा होइ ॥८९॥ २/३९
धर्मे च धर्मविषयाद्, बहुमानात् प्रधानभावेन धर्मस्यैव, तदनुरागात् साधर्मिकानुरागाद्धर्मानुरागाद् वा, सार्मिकप्रीतेस्तु विशिष्टफलनिवर्तिकायाः । हन्तैवं प्रत्यवधारय वृद्धिर्भुवा भवति ॥३९॥
बोधवृद्धिः कथं भवतीत्याह - विहियाणुट्ठाणाओ, पाएणं सव्वकम्मखउवसमो।। नाणावरणावगमा, नियमेणं बोहवुड्डि त्ति ॥१०॥ २/४०
विहितानुष्ठानात् सदनुष्ठानरूपात् प्रायेण बाहुल्येन, सर्वकर्मक्षयोपशमो मोहान्तरायज्ञानावरणादिक्षयोपशमो यतः सम्भवति । ततो ज्ञानावरणापगमात् तत्कृत्या नियमेन नियोगेन, बोधवृद्धिरिति ज्ञानवृद्धिः ॥४०॥
गुरुभक्तिवृद्धिः कथं भवतीत्याह - कल्लाणसंपयाए, इमीऍ हेऊ जओ गुरू परमो । इय बोहभावओ, च्चिय जायइ गुरुभत्तिवुड्डी वि ॥११॥ २/४१ __कल्याणसम्पदः कल्याणसम्पत्तेः, अस्याः प्रस्तुताया हेतुः कारणम् । यतो गुरुः परमो वर्तते। इत्येवंप्रकारबोधभावत एव सकाशाद् जायते।गुरुभक्तिवृद्धिरपि गुरुसेवासमृद्धिरपीति ॥४१॥ इय कल्लाणी एसो, कमेण दिक्खागुणे महासत्तो । सम्मं समायरन्तो, पावइ तह परमदिक्खं पि ॥१२॥ २/४२
इत्येवं प्रस्तुतनीत्या, कल्याणी पुण्यवान्, एष प्रस्तुतः, क्रमेण परिपाट्या, दीक्षागुणान् महासत्त्वः सत्त्वाधिकः, सम्यक् समाचरन् भावसारम्, प्राप्नोति तथा परमदीक्षामपि सर्वविरतिदीक्षामपि ॥४२॥