SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ गाथा - ३५-३८ २- दीक्षाविधि - पञ्चाशकम् २७ ज्ञानादिगुणयुतः खलु सम्यग्ज्ञानादिसम्पन्नः निरभिष्वङ्गो बाह्यद्रव्यनिस्पृहः, पदार्थरसिकश्चागमोक्तभावप्रीतियुक्तश्च, इत्येवं यतते प्रयत्नं विधत्ते । न पुनरन्योऽनधिकारित्वात्, गुरुरपि तादृश एवानुकूलत्वात् परितोषसम्पादनसमर्थः ॥३४॥ साम्प्रतं दीक्षासम्प्राप्त्या सत्त्वानां प्रशंसनीयतामाह - धण्णाणमेयजोगो, धण्णा चेट्टंति एयनीईए । धण्णा बहु मन्नन्ते, धण्णा जे न प्पदूसन्ति ॥ ८५ ॥ २/३५ धन्यानामेतद्योगो दीक्षया सम्बद्धो गुरुयोगो वा । धन्याश्चेष्टन्ते एतन्नीत्या पूर्वोक्तया, धन्या बहु मन्यन्ते बहुमानविषयीकुर्वन्ति, धन्या ये न प्रदुष्यन्त्यस्यामिति गम्यते, चित्तविकारं नापद्यन्त इत्यर्थः॥३५॥ दीक्षानन्तरविधिमाह दाणमह जहासत्ती, सद्धासंवेगकमजुयं नियमा । विहवाणुसारओ, तह जणोवयारो य उचिओ ति ॥ ८६ ॥ २/३६ दानमथ यथाशक्ति शक्त्यनुरूपम् । श्रद्धासंवेगक्रमयुतं नियमाद्धर्मानुरागमोक्षाभिलाषप्रदेयानुपूर्वीयुक्तम्, नियमान्नियोगेन कर्त्तव्यम् । विभवानुसारतो विभवापेक्षया, तथा जनोपचारश्च लोकपूजारूप:, उचित इति योग्यतावैचित्र्येण ॥३६॥ अस्या एव लिङ्गमाह - अहिगयगुणसाहम्मियपीईबोहगुरुभत्तिवुड्डी य । लिंगं अव्वभिचारी, पइदियहं सम्मदिक्खाए ॥८७॥ २/३७ अधिकृतगुणाश्च साधर्मिकप्रीतिश्च बोधश्च गुरुभक्तिश्चाधिकृतगुणसाधर्मिकप्रीतिबोधगुरुभक्तयस्तासां प्रत्येकं वृद्धिश्च, लिङ्गं चिह्नम् अव्यभिचार्यविसंवादि, प्रतिदिवसं प्रतिदिनम्, सम्यग्दीक्षायाः शोभनदीक्षायाः ॥ ३७॥ अधिकृतगुणवृद्धिः कथं भवतीत्याह - परिसुद्धभावओ तह, कम्मखओवसमजोगओ होइ । अहिगयगुणवुड्डी खलु, कारणओ कज्जभावेणं ॥८८॥ २/३८ परिशुद्धभावतो जीवसम्बन्धिविशुद्धादध्यवसायाद् वीर्यकृतात् तथा कर्मक्षयोपशमयोगतो भावसहकारिणो भावावस्थानहेतोः [भवति जायते अटी.] अधिकृतगुणवृद्धिः
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy