________________
२६
२-दीक्षाविधि-पञ्चाशकम् _ गाथा-३०-३४ ____ अथानन्तरं त्रिप्रदक्षिणापूर्वं गुरूंस्त्रीन् वारान् प्रदक्षिणीकृत्येत्यर्थः । सम्यक्शुद्धेन भावशुद्धेन चित्तरत्नेन मनश्चिन्तामणिना, गुरोनिवेदनं सर्वथैव वित्त-चतुष्पदपरिवारादिभिः दृढमात्मनोऽत्र दीक्षायां सत्याम् ॥२९॥
एसा खलु गुरुभत्ती, उक्कोसो एस दाणधम्मो उ। भावविसुद्धीऍ दढं, इहरा वि य बीयमेयस्स ॥८०॥ २/३०
एषा खलु एषैव, गुरुभक्तिः उत्कृष्ट एष दानधर्मस्तु यत्सर्वथा निवेदनमात्मनो भावविशुद्ध्या दृढं नितान्तम् इतरथापि च तथाविधभावशुद्ध्यभावे, बीजमेतस्योत्कृष्टदानधर्मस्योदारभावस्य वा ॥३०॥
जं उत्तमचरियमिणं, सोउं पि अणुत्तमा न पारेन्ति । ता एयसयासाओ, उ पगरिसो होइ एयस्स ॥८१॥ २/३१
यदुत्तमचरितमिदमुत्तमपुरुषचेष्टितमिदम्, श्रोतुमप्यनुत्तमा न पारयन्ति न शक्नुवन्ति तथाविधवीर्यायोगात् । तत्तस्माद् एतत्सकाशात् दानधर्मसकाशात्, [तु] पुनः प्रकर्षो भवत्येतस्य प्रस्तुतभावस्य ॥३१॥
ननु गुरोवित्तादि प्रतीच्छतोऽधिकरणं भविष्यतीत्याशङ्कापनोदायाह - गुरुणो वि नाहिगरणं, ममत्तरहियस्स एत्थ वत्थुम्मि । तब्भावसुद्धिहेउं, आणाए पयट्टमाणस्स ॥८२॥ २/३२
गुरोरपि नाधिकरणमारम्भप्रवृत्तिरूपम्, ममत्वरहितस्य लोभाहङ्काररहितस्य अत्र वस्तुनि न तु दानपरिग्रहरूपे । तद्भावशुद्धिहेतोराज्ञया आगमात् प्रवर्तमानस्य ॥३२॥
नाऊण य तब्भावं, जह होइ इमस्स धम्मवुड्डि त्ति । दाणादुवदेसाओ, अणेण तह एत्थ जइयव्वं ॥८३॥ २/३३
ज्ञात्वा च तद्भावमत्युदाराशयरूपं विवक्षितदानविषयं वा, यथा चैत्य-साधु-पूजादिना भवत्यस्य दीक्षापात्रस्य धर्मवृद्धिरिति धर्मसमृद्धिः, दानाद्युपदेशादौ विषये, आदिशब्दात् शील-तपो-भावनापरिग्रहः, अनेन गुरुणा, तथाऽत्र यतितव्यं प्रयत्नः कार्यः ॥३३॥
अधुना गुरुशिष्ययोर्द्वयोरपि, दीक्षामङ्गीकृत्य भावप्रयत्नसमानत्वमुपदर्शयति - नाणाइगुणजुओ खलु, निरभिस्संगो पयत्थरसिगो य । इय जयइ न पुण अण्णो, गुरू वि एयारिसो चेव ॥८४॥ २/३४