________________
२५
गाथा-२६-२९
२-दीक्षाविधि-पञ्चाशकम् यथा दीर्घत्वं प्राकृते तु समानं रूपं तस्य जीवस्य पातश्चेष्टाविशेषः । स्वापादिक्रियाविशिष्टस्य पृथिव्यां तेन चागतिगत्योर्विज्ञानम्। कुतोऽयमागतः क्व वा यास्यतीति ? देवादिजन्मन आगतस्तेष्वेव विशिष्टेषु पुनरुत्पत्स्यत इत्येवं रूपम् । पुष्प विकसने [पा.धा.११२२]। पुष्पतीति पुष्पम् । सङ्कोचविकासवच्छरीरं, तत्क्रियाविशेषेण वा । आगतिगतिविज्ञानमिदं च साम्प्रदायिकं स्वपरसमयाद्विज्ञेयम् । परमसूक्ष्मदृष्टिवादानुसारिसन्दर्भाङ्गविद्यादिषु च प्रसिद्धम् ॥२५॥
अभिवाहरणा अण्णे, नियजोगपवित्तिओ य केइ त्ति । दीवादिजलणभेया, तहुत्तरसुजोगओ चेव ॥७६॥ २/२६
अभिव्याहरणादभिव्याहारात् समयगतादुद्देशादेरन्ये मन्यन्ते, पूर्वोक्तं निजयोगप्रवृत्तितश्च स्वकीयमनोवाक्कायव्यापाराच्च । केचिदिति ब्रुवते । गुरोरात्मसम्बन्धिव्यापारात्, दीक्षणीयशुभाशुभपरिज्ञानमस्य वा प्रस्तुतस्य दीपादिज्वलनभेदात् दीपादिज्वलनविशेषाद्, आदिशब्दादाहुति-ज्वलनपरिग्रहः, तद्विशेष उत्सर्पणावसर्पणादिगतः, ततः केचिद् ब्रुवते । तथोत्तरसुयोगतश्चैव विचित्रोत्तरशोभनव्यापारतश्च सहजनिमित्तरूपात् ॥२६।।
बाहिं तु पुप्फपाए, वियडणचउसरणगमणमाईणि । काराविज्जइ एसो, वारतिगमुवरि पडिसेहो ॥७७॥ २/२७
बहिस्तु समवसरणकल्पितबिम्बात् तद्गतोत्तममध्यमावस्थानाद् वा पुष्पपाते सति, विकटनमालोचनं स्वभावप्रकाशनम्, चतुःशरणगमनमर्हत्सिद्धसाधुकेवलिप्रज्ञप्तधर्माश्रयोपगमः, आदिशब्दाढुष्कृतगर्हादिपरिग्रहो विकटनचतुःशरणगमनादीनि विद्वत्समयप्रसिद्धानि । कार्यते एषोऽधिकृतसत्त्वो वारत्रिकं यावत्, उपरि प्रतिषेधो न पुनश्चतुर्थवारं कार्यत इत्यर्थः ॥२७॥
परिसुद्धस्स उ तह पुष्फपायजोगेण दंसणं पच्छा । ठिइसाहणमुववूहण, हरिसाइपलोयणं चेव ॥७८॥ २/२८
परिशुद्धस्य तु तथाविधनिमित्तशुद्धिसमन्वितस्य । पुनस्तथा, पुष्पपातयोगेनानुकूलपुष्पपतनव्यापारेण । दर्शनं भगवद्दर्शनं पश्चात्तस्य भवतीति शेषः । स्थितिसाधनं मर्यादासाधनमक्षिस्थगनादिका मर्यादेयं नान्यथा मन्तव्या। उपबृंहणम्-'धन्यस्त्वं धर्माधिकारी क्षीणप्रायक्लेशः' इत्येवंरूपम् । हर्षादिप्रलोकनं चैव हर्षात्यन्तविस्मयादिप्रदर्शनं चैव, गुरोस्तद्विषयमिति गम्यते
॥२८॥
अह तिपयाहिणपुव्वं, सम्मं सुद्धेण चित्तरयणेण । गुरुणो निवेयणं सव्वहेव दढमप्पणो एत्थ ॥७९॥ २/२९