________________
२- दीक्षाविधि- पञ्चाशकम्
अहिनउलमयमयाहिवपमुहाणं तह य तिरियसत्ताणं । बितियंतरम्मि एसा, तइए पुण देवजाणाणं ॥७२॥
२/२२
अहि-नकुल-मृग-मृगाधिप-प्रमुखानामेतत्प्रभृतीनाम्, तथा च तिर्यक् सत्त्वानां तिर्यक्जीवानाम् । द्वितीयान्तरे द्वितीयप्राकारान्तरे एषा स्थापना, तृतीये पुनरन्तरे, देवयानानां देवयानविमानानामनेकहंसमयूराद्याकारभृताम् ॥२२॥
२४
गाथा - २२-२५
रइयम्मि समोसरणे, एवं भत्तिविहवाणुसारेणं ।
सुभूओ उपओसे, अहिगयजीवो इहं एइ ॥७३॥ २/२३
रचिते समवसरणे पूर्वोक्ते एवमुक्तनीत्या । भक्तिश्च विभवश्च तयोः, अनुसारेण अनुरूपेणानुरूपक्रमेण, शुचिभूतस्तु द्रव्य - १ - भावशौचाभ्याम्, प्रदोषे रात्रिप्रथमयामे दिवसावसान इति यावत् । अधिकृतजीव: प्रस्तुतजीवो दीक्षार्ह इह स्थाने । एति प्रविशति, तदेव स्थानमध्यास्त इत्यर्थः॥२३॥
इहैवोपयोगीदमाह -
भुवणगुरुगुणक्खाणा, तम्मी संजायतिव्वसद्धस्स । विहिसाहणमोहेणं, तओ पवेसो तहिं एवं ॥७४॥
२/२४
भुवनगुरोर्गुणाः क्षायिकसम्यक्त्व - केवलज्ञान - दर्शनादयः, जीवस्वरूपप्रतिबद्धास्तदपरे च सर्वातिशायिनश्चतुस्त्रिंशदतिशयप्रतिबद्धा देहसौगन्धादय:, तेषामाख्यानं स्वरूपकथनम् । तस्माद्धेतोस्तस्मिन् भगवति भुवनगुरौ सञ्जाततीव्र श्रद्धस्य समुत्पन्नतीव्राभिलाषस्य विधिसाधनमोघेन सामान्येन, ततः प्रवेशस्तस्मिन् समवसरणे । एवं वक्ष्यमाणन्यायेन ||२४|| १ सासण. अटी. । तमेव न्यायमाह -
वरगंधपुप्फदाणं, सियवत्थेणं तहच्छिठवणं च । आगइगइविण्णाणं, इमस्स तह पुप्फपाएणं ॥७५॥ २/२५
वरगन्धपुष्पदानम् । तस्य हस्त इति गम्यते । सितवस्त्रेण मङ्गल्यवस्त्रेण मन्त्राऽभिसंस्कृतेन । तथाक्षिस्थगनं च नयनयोरावरणं च किञ्चित्कालमागतिगत्योः चेष्टाविशेषरूपयोः विज्ञानम् । पूर्वं गत्वा तैरन्यैर्वा पदैः प्रत्यागच्छति । तद्विषयनिमित्तज्ञानमावृतनयनस्य विज्ञेयमस्य प्रस्तुतस्य । तथा पुष्पपातेन हस्तगतपुष्पपतनविशेषेण । अथवा पुरं शरीरं पातीति 'पुष्पो जीवो ऊर्ध्व [च]रः, १. पुष्प जीवत्वविशिष्ट इति फलितार्थः ।