SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ३ गाथा-१८-२१ २-दीक्षाविधि-पञ्चाशकम् जगत्पितामहो ब्रह्मा, ऋषभदेवो, यथोक्तम् - पितुः प्रजानां भरतस्य यत्पिता, पितामहस्तेन निरुच्यते भवान् । अहिंसनादप्यवसङ्क(शङ्क? शङ्करः, स्मरादिभिश्चायमन्यज्जिनो मतः ॥१॥(वं.)[ ] उत्कृष्टो वर्णकः, चन्दनं, वर्णकमाहुश्चन्दनम् इत्युक्तेः । 'व्यपगतमालावर्णकविलेपनस्य' इति च समयप्रसिद्धेः [ ] तस्यापरि समवसरणबिम्बरूपस्य उपरिवर्तिसमवसरणव्यवस्थितप्रतिमास्वरूपस्य ॥१७॥ एयस्स पुव्वदक्खिणभागेणं मग्गओ गणहरस्स । मुणिवसभाणं वेमाणिणीण तह साहुणीणं च ॥६८॥ २/१८ एतस्य भुवनगुरोः, पूर्वदक्षिणभागेन मार्गतः पृष्ठतः, गणधरस्य गणस्वामिनः, मुनिवृषभाणामतिशयसम्पन्नेतरसाधूनाम्, वैमानिकदेवीनां तथा साध्वीनां च भवति विन्यास इति सम्बध्यते ॥१८॥ इय अवरदक्खिणेणं, देवीणं ठावणा मुणेयव्वा । भवणवइवाणमंतर-जोइससंबंधिणीणं ति ॥६९॥ २/१९ यथाऽस्य त्रिकस्य न्यासतोऽवमेऽपरदक्षिणेन दिग्भागेन देवीनां स्थापना मुणितव्या भवनपति-व्यन्तर-ज्योतिष्कसम्बन्धिनीनामिति, भवनवासि-ज्योतिष्क-वनविवरचारिदेवीक्रमेण ॥१९॥ भवणवइवाणमंतर-जोइसियाणं च एत्थ देवाणं । अवरुत्तरेण नवरं, निद्दिट्ठा समयकेऊहिं ॥७०॥ २/२० भवनपति-व्यन्तर-ज्योतिष्काणां चात्र देवानां स्थापनेति सम्बध्यते । अपरोत्तरेण दिग्भागेन नवरं केवलं निर्दिष्टा, समयकेतुभिः समयचिरैरागमवेदिभिः ॥२०॥ वेमाणियदेवाणं, नराण नारीगणाण य पसत्था । पुव्वुत्तरेण ठवणा, सव्वेसिं नियगवण्णेहिं ॥७१॥ २/२१ वैमानिकदेवानां नराणां मनुष्याणां नारीगणानां च प्रशस्ता । पूर्वोत्तरेण स्थापना सर्वेषामेव निजकवणे रक्त-पीत-सित-वर्णैर्वैमानिकानाम् ॥२१॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy