________________
२- दीक्षाविधि-पञ्चाशकम्
वाउकुमाराहवणे, पमज्जणं तत्थ सुपरिसुद्धं तु । गंधोदगदाणं पुण, मेहकुमाराहवणपुव्वं ॥ ६३ ॥ जुम्मं । २ / १३
२२
गाथा - १३-१७
वायुकुमारादीनां समयप्रसिद्धानाम् आह्वानं संशब्दनम् । निजनिजैर्मन्त्रैः प्रणवनम:पूर्वकैस्तन्नामभिर्यथासम्प्रदायमागतैः, मुक्ताशुक्त्या मुक्ताफलोत्पत्तिनिबन्धनशुक्त्याकारया मुद्रया, किल पश्चात् तत्कर्मकरणं तु वायुकुमारादिकर्मसम्पादनम् ॥१२॥
वायुकुमाराह्वाने प्रमार्जनं क्षेत्रशुद्धिरूपम् । तत्र सुपरिशुद्धं तु सङ्कल्पशुद्ध्या कर्त्तव्यमिति गम्यते । गन्धोदकदानं सुरभिगन्धसम्मिश्रसलिलप्रवर्षणम् । पुनर्मेघकुमाराह्वानरूपं समवसरणेऽपि यतस्तत् कुर्वन्ति ॥१३॥
उउदेवीणाहवणे, गंधड्डा होइ कुसुमवुट्ठिति ।
अग्गिकुमाराहवणे, धूवं एगे इहं बेन्ति ॥ ६४ ॥
२/१४ 'ऋतुदेवीना वसन्तग्रीष्मवर्षाशरद्धेमन्तशिशिरनामर्तुदेवीनाम् आह्वाने सङ्कीर्तने, गन्धाढ्या भवति कुसुमवृष्टिरिति, अग्निकुमाराह्वाने धूममेके, समयज्ञा इह स्थाने ब्रुवते तेजो निक्षिप्यम्, अन्ये तु स्वरूपत एव धूपं सुरभिगन्धाढ्यं सन्यसनीयं ब्रुवते ॥१४॥
वेमाणियजोइसभवणवासिआहवणपुव्वगं तत्तो ।
पागारतिगण्णासो, मणिकचणरुप्पवण्णाणं ॥ ६५ ॥
२/१५
वैमानिक-ज्योति-र्भवनवास्याह्वानपूर्वकम् ततः क्रमापेक्षयाभ्यन्तर-मध्यम- बाह्यरूपं प्राकारत्रिकम्, तस्य न्यासो, मणिकाञ्चनरूप्यवर्णानां प्राकाराणां स च न्यास इति ॥१५॥ वंतरगाहवणाओ, तोरणमाईण होइ विण्णासो ।
चितितरुसीहासणछत्तचक्कधयमाइयाणं च ॥६६॥ २/१६
व्यन्तराह्वानात् तोरणादीनाम्, आदिशब्दात् पीठ - देवच्छन्दके पुष्करिण्यादिपरिग्रहः, भवति, विन्यासो विरचना, यतो व्यन्तरदेवास्तानि कुर्वन्ति, चैत्यतरु-सिंहासन- छत्र-चक्रध्वजादीनां च, आदिशब्दात् पद्म- चामरपरिग्रहः ॥१६॥
भुवणगुरुणो य ठवणा, सयलजगपियामहस्स तो सम्मं । उक्विण्णगोवरि, समवसरणबिंबरूवस्स ॥६७॥ २/१७
भुवनगुरोश्च भगवतस्त्रिलोकनाथस्य, स्थापना सद्भावरूपा, सकलजगत्पितामहस्य जगतो धर्मः पिता, पालनाभियुक्तत्वात्, तस्यापि भगवांस्ततस्तदनन्तरं सम्यगवैपरीत्येन, अथवा