________________
गाथा-९-१२ २-दीक्षाविधि-पञ्चाशकम्
२१ बहुजणविरुद्धसंगो, देसादायारलंघणं चेव । उव्वणभोगो य तहा, दाणादि वि पगडमण्णे तु ॥५९॥ २/९ साहुवसणम्मि तोसो, सति सामत्थम्मि अपडियारो य । एमाइयाणि एत्थं, लोगविरुद्धाणि णेयाणि ॥६०॥ २/१० तिगं ।
सर्वस्य चैव प्राणिमात्रस्य, निन्दा जुगुप्सा, विशेषतो विशेषेण । तथा च गुणसमृद्धानां बहुगुणानां ऋजूनां स्वस्थाशयानां धर्मकरणं धर्मक्रिया सामान्येन तस्यां हसन परिभवबुद्ध्या, रीढा अवज्ञा, जनपूजनीयाना मातापितृ[मातृपितृ]प्रभृतीनाम् ॥८॥
बहभिजनैलॊकैर्ये विरुद्धा विरोधभाजस्तैः सह सङ्गः सम्पर्कः, देशाद्याचारलङनम्, चैव आदिशब्दात् कुलग्रामाद्याचारपरिग्रहः, उल्बणभोगश्च तथा देशकालविभववयोऽवस्थाद्यनुचितो दानाद्यपि, प्रकटमन्ये तु तथाविधशिष्टलोकाऽसम्मतम् ॥९॥
साधूनां शिष्टानाम्, व्यसने तोषः परितोषः सति सामर्थ्य व्यसनापहाररूपे, अप्रतीकारश्चानुद्यमश्च व्यसनविघातशैथिल्यमित्यर्थः । एवमादिकान्यत्र विद्वल्लोकप्रसिद्धानि। लोकविरुद्धानि ज्ञेयानि ज्ञातव्यानि ॥१०॥
सुन्दरगुरुयोगमाह - नाणाइजुओ य गुरू, सुविणे उदगादितारणं तत्तो । अचलाइरोहणं वा, तहेव वालाइरक्खा वा ॥६१॥ २/११
ज्ञानादियुतश्च गुरुः ज्ञानदर्शनाभ्यां चारित्रेण च युक्तो गुरुर्भवति, स्वप्ने स्वप्न मनोविज्ञानरूपे, उदकादितारणमुदक-ज्वलनादिव्यसनेभ्य[गर्तादिभ्यः अटी.]स्तारणं निस्तारणम् । ततो गुरोः सकाशात् पश्यति आत्मन उदकादिषु निमज्जतोऽवधारणं तेषां चाक्रामतां वारणं निवारणम् । अचलादिषु पर्वत-प्रासाद-वृक्ष-शिखरादिषु, रोहणं चारोपणं वा तत इति सम्बध्यते, तथैव च व्यालादिभ्यो रक्षा वा, स्वप्ने तत एव, अनेन सुन्दरगुरुयोगो व्याख्यातः ॥११॥
तदेवं प्रस्तुतदीक्षार्हस्य समवसरणप्रक्रमविरचनद्वारेण दीक्षार्थमागमनं विशिष्टकाले प्रदिदर्शयिषुस्तावदिदमाहवाउकुमाराईणं, आहवणं नियनिएहिं मन्तेहिं । मुत्तासुत्तीए किल, पच्छा तक्कम्मकरणं तु ॥६२॥ २/१२