________________
२०
२-दीक्षाविधि-पञ्चाशकम्
गाथा-४-८ कस्य च दीक्षाधिकारित्वमित्याह - दिक्खाएँ चेव रागो, लोगविरुद्धाण चेव चागो त्ति । सुंदरगुरुजोगो वि य, जस्स तओ एत्थ उचिओ त्ति ॥५४॥ २/४
दीक्षायामेव प्रस्तुतायां रागोऽनुरागो वक्ष्यमाणः, लोकविरुद्धानां चैव वक्ष्यमाणानां त्यागः, इति परिहाररूपः सुन्दरः सम्यग् ज्ञान-सदनुष्ठानसम्पन्नः स चासौ गुरुश्च तेन योग उचितसम्बन्धो यस्याधिकृतजीवस्यास्ति, तकोऽसौ अत्र दीक्षायाम् उचितो योग्य इति ॥४॥
[गाथात्रिकेण] दीक्षारागमेवाह - पयईए सोऊण व, ट्ठण व केइ दिक्खिए जीवे । मग्गं समायरन्ते, धम्मियजणबहुमए निच्चं ॥५५॥ २/५ एईए चेव सद्धा जायइ पावेज्ज कहमहं एयं ?। भवजलहिमहानावं निरवेक्खा साणुबंधा य ॥५६॥ २/६ विग्घाणं चाभावो, भावे वि य चित्तथेज्जमच्चत्थं । एयं दिक्खारागो, निद्दिटुं समयकेऊहिं ॥५७॥ २/७ तिगं ।
प्रकृत्या स्वभावेन, श्रुत्वा वा दीक्षागुणान्, दृष्ट्वा वा कांश्चित् दीक्षितान् जीवान् मार्ग समाचरतः सतः, धर्मं चरन्तीति धार्मिकास्ते च ते जनाश्च तेषां बहुमतान् सम्मतान्नित्यं सर्वकालम्॥५॥
एतस्यामेव प्रस्तुतदीक्षायाम, श्रद्धा रुचिः जायते प्रादुर्भवति । प्राप्नुयां लभेयं कथमहमेतां दीक्षां, कीदृशीं? भवजलधिमहानावं संसारसमुद्रमहाद्रोणीम्, तत्तरणाव्यभिचारिणीम् । सा च श्रद्धा निरपेक्षा सांसारिकफलनिरपेक्षतया, सानुबन्धा चागामिककालभाविसन्ताना चाव्यवच्छिन्नेत्यर्थः ॥६॥
विघ्नानां चोपद्रवाणां च अभावोऽदृष्टसामर्थ्याद, भावेऽपि च सद्भावेऽपि च, विघ्नानां कथञ्चिन्निरुपक्रमक्लिष्टकर्मोदयात् चित्तस्थैर्यमत्यर्थं चित्तदायमतीव। एतत् पूर्वोक्तम्, दीक्षारागो निर्दिष्टं कथितम् [तः] । समयकेतुभिः समयज्ञैः ॥७॥
[गाथात्रयेण] लोकविरुद्धप्रतिपिपादयिषयाऽऽह - सव्वस्स चेव निंदा, विसेसओ तह य गुणसमिद्धाणं । उजुधम्मकरणहसणं, रीढा जणपूयणिज्जाणं ॥५८॥ २/८