________________
॥ ॥ द्वितीयं दीक्षाविधि-पञ्चाशकम् ॥
एवं श्रावकधर्मविधिमभिधायाधुना सिंहावलोकितन्यायेन प्राक्कालभावि सकृद्बन्धकाऽपुनर्बन्धकगतं दीक्षाविधिमधिकृत्याह -
नमिऊण महावीरं, जिणदिक्खाए विहिं पवक्खामि । वयणाउ निउणनयजुयं, भव्वहियट्ठाय लेसेण ॥५१॥ २/१
नत्वा नमस्कृत्य महावीर्यविराजनात् महावीरस्तम्, जिनदीक्षायाः प्रस्तुतायाः विधि प्रवक्ष्याम्युपायमभिधास्ये, वचनादागमात्, निपुणनययुतं सूक्ष्मनीतिसमन्वितम् । भव्यहितार्थं तथाविधभव्यसत्त्वोपकाराय, लेशेन सङ्केपेण ॥१॥
दीक्षास्वरूपमाह - दिक्खा मुंडणमेत्थं, तं पुण चित्तस्स होइ विण्णेयं । न हि अप्पसंतचित्तो, धम्मऽहिगारी जओ होइ ॥५२॥ २/२
दीक्षा मुण्डनमत्र, 'दीक्षा, मौण्ड्य-इज्या-उपनयन-नियम-व्रतादेशेषु- [पा.धा० ६०९] इति धातुपाठात् तत्पुनर्मुण्डनं चित्तस्य भवति विज्ञेयमत्कटकोधादिकषायलवनरूपत्वात् न ह्यप्रशान्तचित्तः क्रोधादिदूषितचित्तः, धर्माधिकारी यतो भवति । 'अप्पसत्तचित्तो' स्वल्पसत्त्वचित्त इति पाठान्तरं वा। आपत्स्ववैक्लव्यकरमध्यवसानकरं सत्त्वं शास्त्रज्ञैरुक्तं तदल्पम्, यस्मिंश्चित्ते तदल्पसत्त्वं चित्तमस्येति सोऽयमल्पसत्त्वचित्तः । शेषं तदेव ॥२॥ (१. अप्पसत्तचित्तो. अटो. जे.)
किमित्यप्रशान्तचित्तोऽल्पसत्त्वचित्तो वा धर्माधिकारी न भवति । यतोऽस्या दीक्षाया असम्भव इत्याह
चरमम्मि चेव भणिया, एसा खलु पुग्गलाण परियट्टे। सुद्धसहावस्स तहा-विसुज्झमाणस्स जीवस्स ॥५३ ॥ २/३
चरम एव सर्वान्त्य एव, भणिता प्रतिपादिता, एषा खलु दीक्षा पुद्गलानां परिवर्ते समयप्रसिद्धे, शुद्धस्वभावस्य निर्मलस्वकीयभावस्य तथाविशुध्यमानस्य तत्कालोचित चित्तविशुद्धिमनुभवतः सतः, जीवस्यात्मनः, तेनासावेव क्षीणप्रायकर्ममलो धर्माधिकारी दीक्षायोग्यः ॥३॥