SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ १६ १- श्रावकधर्मविधि-पञ्चाशकम् गाथा -४३-४६ रित्यनुस्मरणम् । योगः शरीरस्थितिहेतुर्व्यापारः प्रश्रवणादिविषयः, तदनन्तरं चैत्यवन्दनं स्वगृह मो इति निपातः । प्रत्याख्यानं च चैत्यवन्दनानन्तरम्, यावच्छक्तिनमस्कारसहितपौरुष्यादि विधिपूर्वमागमोक्तविधानपुरःसरम् ॥४२॥ एव, तह चेईहरगमणं, सक्कारो वंदणं गुरुसगासे । पच्चक्खाणं सवणं, जइपुच्छा उचियकरणिज्जं ॥४३॥ १/४३ तथा चैत्यगृहगमनं सम्भवतः, सत्कारश्च चैत्यानां पुष्पगन्धमाल्यादिभिः, वन्दनं तेषामेव, गुरुसकाशे गुरुसमीपे प्रत्याख्यानं तदेव पूर्वगृहीतं सविशेषं वा, श्रवणं गुरुसकाश एवागमश्रवणम्, यतिपृच्छा साधुविषयकर्त्तव्यपृच्छा, 'किं कस्य ग्लानादेः कर्त्तव्यम्' ? इति उचितकरणीयम्, यदुचितं करणीयमवश्यकर्त्तव्यं तद्विधेयमिति शेषः ||४३|| तदनन्तरम् - अविरुद्धो ववहारो, काले तह भोयणं च संवरणं । चेइहरागमसवणं, सक्कारो वंदनाई य ॥४४॥ १/४४ अविरुद्धो लोकधर्माविरुद्धः, व्यवहारः क्रियारूपो काले देश-काले, तथा भोजनं च विधेयम्, संवरणं प्रत्याख्यानम्, शरीरस्थित्यविरोधेन, चैत्यगृहागमः शेषव्यापाराभावे चैत्यगृह एवागमनम्, श्रवणं पुनरप्यागमविषयम्, सत्कारश्चैत्यानामुचितवेलायां वन्दनादि च कर्त्तव्यम्, आदिशब्दात् कुशलप्रणिधान - प्रणामपरिग्रहः ॥४४॥ जइविस्सामणमुचिओ, जोगो नवकारचिंतणाईओ । गिहगमणं विहिसुवणं, सरणं गुरुदेवयाईणं ॥४५॥ १/४५ यतीनां साधूनां विश्रामणं परिश्रान्तानां विश्रान्तिसंपादनं विधेयम्, उचितो योग: समुचितो धर्मव्यापारो, नमस्कारचिन्तनादिकः, आदिशब्दात् स्वाध्याय - ध्यानपरिग्रहः स च कर्त्तव्यः, पुनरपि चैत्यगृहात् 'स्वगृहगमनं कर्त्तव्यम्, विधिस्वप्नं पञ्चनमस्कारपाठः सर्वजीवक्षान्तिपुरःसरः, स्मरणं मनसिकरणं गुरुदेवतादीनां धर्मगुरुवीतरागादीनाम्, विशेषतः स्वापकाले, आदिशब्दात् सम्यग्दृष्टिभद्रिकचतुर्निकायगतदेवपरिग्रहः ॥४५॥ अब्बंभे पुण विरई, मोहदुगंछा सतत्तचिन्ता य । इत्थीकडेवराणं, तव्विरएसुं च बहुमाणो ॥ ४६॥ १/४६ १. गिहगमणं - स्वगृहगमनमेतच्च स्वयोगसिद्धत्वेनापार्थकत्वान्निजपरिवारस्य धर्मदेशनाकरणमिति ज्ञापयति (श्राद्धदिनकृत्य गाथा३ देवेन्द्रसूरिवृत्ति:)
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy