SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ गाथा-४७-४९१-श्रावकधर्मविधि-पञ्चाशकम् १७ अब्रह्मण्यब्रह्मचर्ये, स्त्रीपरिभोगस्वभावे पुनर्विरतिनिवृत्तिर्विधेया भावक्रियाभ्याम्, मोहजुगुप्सा मोहविषया निन्दा, 'दुरन्तोऽयं मोह' इति भावना, यथाशक्ति मोहभेदपरिहारश्च, स्वतत्त्वचिन्ता च स्वरूपचिन्ता च, स्त्रीकलेवराणा कल-मल-मांस-शोणित-पुरीषादिपूर्णतारूपा विधेया । तद्विरतेषु च स्त्रीकलेवरविरतेषु भावतः साधुषु, बहुमान आन्तरप्रीतिरूपो विधेयः ॥४६॥ सुत्तविउद्धस्स पुणो, सुहुमपयत्थेसु चित्तविण्णासो । भवठिइनिरूवणे वा, अहिगरणोवसमचित्ते वा ॥४७॥ १/४७ सुप्तविबुद्धस्य रात्रौ पूर्वं सुप्तः पश्चाद्विबुद्धस्तस्य, पुनरनन्तरनिद्रापगमे सूक्ष्मपदार्थेषु बन्धमोक्षादिषु स्वपरसमयप्रसिद्धेषु, सूक्ष्मेक्षिकया प्रेक्षावन्निरुपितेषु चित्तविन्यासो मनोऽवस्थापनम्, भवस्थितिनिरूपणे वा, जन्म-जरा-मरणप्रबन्धलक्षण-संसारस्थितिनिरूपणे वा, चित्तविन्यासो विधेय इति सर्वत्र सम्बन्धनीयम् । अधिक्रियते नरकादिष्वनेनेति अधिकरणं भूतोपघातस्थानं, तदुपशमे तत्परिहारे चित्तमभिप्रायस्तस्मिन्, कलहोपशमाभिप्राये वा चित्तविन्यासः ॥४७॥ - आउयपरिहाणीए, असमंजसचेट्ठियाण व विवागे । खणलाभदीवणाए, धम्मगुणेसुं च विविहेसुं ॥४८॥ १/४८ बाहगदोसविवक्खे, धम्मायरिए य उज्जयविहारे । एमाइचित्तणासो, संवेगरसायणं देइ ॥४९॥ १/४९ जुम्म आयुःपरिहाण्यामायुषः प्रतिसमयं परिहाणिर्भवतीत्येवं भावनीयम्, असमञ्जसानि लोकधर्मविरुद्धानि चेष्टितानि मनो-वाक्-कायव्यापाररूपाणि, तेषां च विपाके यथासमञ्जसचेष्टितानां स्वयमेव जीवेन फलविपाकोऽनुभवनीयः, क्षणे क्षणे यो लाभः शुभाध्यवसायरूपः, सम्यग्ज्ञानादिप्रवृत्तिहेतुः तस्य दीपनायां प्रकाशनायामात्मनश्चित्तविन्यासः, धर्मगुणेषु च स्वाध्यायध्यानाऽहिंसादिष्वागमप्रसिद्धेषु विविधेष विधिप्रतिषेधरूपतया व्यवस्थितेषु ॥४८॥ यैर्दोषैरर्थकामस्नेहरागादिभिः, स धर्माधिकारी पुरुषो बाध्यते बाधकदोषाः तद्विपक्षे, तत्प्रतिपक्षभावनारूपे यथोक्तम् - अत्थंमि रागभावे, तस्सेव उवज्जणाइ संकेसं। भावेज्ज धम्महेउं, अभावमो तह य तस्सेव ॥१॥[पंचवत्थुगं गाथा-८९१] धर्मोपदेशहेतुस्तत्प्रथमतया बोधिलाभकरः धर्माचार्य यथोक्तमागमे 'धम्मो जेणुवट्ठो सो
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy