________________
गाथा-३९-४२१-श्रावकधर्मविधि-पञ्चाशकम्
एवं यतमानस्य, असन्नप्ययं प्राग्देशविरतिपरिणामो जायते प्रादुर्भवति, जातश्च न पतति कदाचिन्नैव प्रतिपतति । तत्तस्माद् अत्र नित्यस्मृत्यादौ, तदुपाये बुद्धिमता प्रेक्षावता अप्रमादो यत्नातिशयो भवति कर्त्तव्यः करणीय इति ॥३८॥
अणुव्रतादीनामेव यावज्जीवेत्वरविभागप्रतिपादनायाह - एत्थ उ सावगधम्मे, पायमणुव्वयगुणव्वयाइं च । आवकहियाइं सिक्खावयाई पुण इत्तराई ति ॥३९॥ १/३९
अत्र तु प्रस्तुते श्रावकधर्मे प्रागुक्ते प्रायो बाहुल्येन अणुव्रतानि गुणव्रतानि च यावत्कथिकानि यावज्जीवकानि। प्रायोग्रहणान्न नियमेन यावज्जीवम्, चातुर्मास्याद्यभिग्रहविशेषप्रतिपत्तेः । शिक्षाव्रतानि पुनरित्वराणीति इत्वरकालान्येव प्रतिदिनकरणीयत्वात् सामायिकादीनाम् ॥३९॥
श्रावकधर्मपर्यन्तवर्तिन्यपि संलेखना कस्मान्नोक्ता ? इत्याह - संलेहणा य अंते, न निओगा जेण पव्वयइ कोइ । तम्हा नो इह भणिया, विहिसेसमिमस्स वोच्छामि ॥४०॥ १/४०
संलेखना चान्ते न नियोगात्, न नियोगेन, येन प्रव्रजति कश्चित् श्रावकः सर्वविरतिं गृह्णाति । तस्मान्नो नैव, इहाधिकारे भणिता उक्ता, विधिशेषं कर्त्तव्यशेषं व्रतपालनोपायरूपम्, अस्य श्रावकस्य वक्ष्याम्यभिधास्ये ॥४०॥ निवसेज्ज तत्थ सड्ढो, साहूणं जत्थ होइ संपाओ। चेइयघराइं जम्मि उ, तदण्णसाहम्मिया चेव ॥४१॥ १/४१ निवसेदावसेत, तत्र क्षेत्रे, श्रद्धा अस्यास्तीति श्राद्धः श्रावकः । साधूनां यतीनां यत्र भवति सम्पातः समागमः चैत्यगृहाणि च शान्ताऽयतनानि च यस्मिंस्तदन्यसार्मिकाचैवापरसमानधार्मिकाश्चैव यत्र सन्ति ॥४१॥
अधुनाऽस्यैव रात्रिंदिवानुष्ठाने च वक्तुमाह [गाथाष्टकेन] - नवकारेण विबोहो, अणुसरणं सावओ वयाइं मे । जोगो चिइवंदणमो, पच्चक्खाणं च विहिपुव्वं ॥४२॥ १/४२
शरीरस्थितिहेतुस्वापानन्तरं नमस्कारेण पञ्चमङ्गललक्षणेन, विबोधः प्रबोध अनुस्मरणममुकशिष्योऽहममुककुलश्च, श्रावको, व्रतानि मे सन्ति सर्वगृहीतानि, तेषां न काचित् क्षति