________________
१४
१- श्रावकधर्मविधि-पञ्चाशकम्
अत एवाह
गहणाउवरि पयत्ता, होइ असन्तो वि विरइपरिणामो । अकुसलकम्मोदयओ, पडइ अवण्णाइ लिंगमिह ॥३५॥
१/३५
ग्रहणादुपरि अणुव्रतग्रहणोत्तरकालम्, प्रयत्नात् क्रियाविशेषमूलादप्रमादात्सूत्रसमुत्थाद् भवि असन्नपि प्रागवस्थायां विरतिपरिणामो देशविरतिपरिणतिः, अकुशलकर्मोदयतो देशचारित्रावरणीयकर्मोदयेन, पतति च कस्यचित् स एव परिणामः पूर्वावस्थायां सन्नपि, अवज्ञादि अवज्ञानमवज्ञा, आदिशब्दादबहुमानादिपरिग्रहो, अवज्ञा आदिर्यस्य तदवज्ञादि, लिङ्गं चिह्नमिह देशविरतिपरिणामे प्रस्तुते विज्ञेयमिति ध्येयम् ॥३५॥
तत्प्रतिपादनार्थं चाप्रमादो विधेय इत्याह ग्रन्थकारः
तम्हा निच्चसतीए, बहुमाणेणं च अहिगयगुणम्मि । पडिवक्खदुगंछाए, परिणइआलोयणेणं च ॥३६॥
गाथा - ३५-३८
१/३६
तित्थंकरभत्तीए, सुसाहुजणपज्जुवासणाए य । उत्तरगुणसद्धाए य, एत्थ सया होइ जइयव्वं ॥३७॥ १/३७ जुम्मं
परपरिवार्यमि कए, जड़ नाम हवेज्ज कज्जनिप्फत्ती ।
ता लोए सच्च- सोएस आयरो कस्स होज्जाहि ॥ [ ]
तस्मान्नित्यस्मृत्या अभिगृहीताणुव्रताविस्मरणेन बहुमानेन च, सदन्तःकरणरूपेण भावेन अधिकृतगुणे प्रतिपन्नगुणे प्रतिपक्षाधिकृतगुणापेक्षया हिंसादय:, तेषाम्, जुगुप्सा परिहारो द्रव्यतो भावतश्च स्वयमकरणम्, न तु हिंसादिप्रवृत्तानां निन्दा, परिविवाद [ परपरिवाद]प्रसङ्गात्, तस्य च निषिद्धत्वात् कषायपरिकर्मादिषु । यथोक्तम् -
परिणत्यालोचनेन च परिणते: जीवाजीवस्वरूपाऽनवस्थितलक्षणायां तथाभावदर्शनेन, आलोचनमवधारणं तेन च ॥३६॥
तीर्थकर भक्त्या जिनपूजाकरणाभिलाषातिरेकरूपया, सुसाधुजनपर्युपासनया च सद्गुर्वादिसेवया च, उत्तरगुणश्रद्धया उत्तरगुणस्थान श्रद्धया च, अत्राणुव्रतपालने, सदा भवति यतितव्यम्॥३७॥
एवमसंतो वि इमो, जायइ जाओ य न पडड़ कयाई । ता एत्थं बुद्धिमया, अपमाओ होइ कायव्व ॥ ३८ ॥
१/३८