________________
गाथा-३३-३४ १-श्रावकधर्मविधि-पञ्चाशकम् किमहं न ददामीत्येवंरूपम् ॥३२॥
उक्तं सातिचारं चतुर्थशिक्षाव्रतम्, अधुना सर्वव्रतेषु परिशुद्धेष्वतिचारा एव न सम्भवन्तीत्याह -
एत्थं पुण अइयारा, नो परिसुद्धेसु होति सव्वेसु । अक्खंडविरतिभावा, वज्जइ सव्वत्थऽओ भणियं ॥३३॥ १/३३
अत्र प्रक्रमे पुनरतिचाराः प्रागुक्ता नो नैव, परिशुद्धेषु भावशुद्धियुक्तेषु भवन्ति, सर्वेष्वेव व्रतेषु, अखण्डविरतिभावात् सम्पूर्णदेशविरतिसद्भावात् । वर्जयतीति सर्वत्र सर्वेष्वेव व्रतेष्वतो भणितं प्राक् ॥३३॥
एवं तावद् व्रतस्वरूपं सकलमभिधाय, तद्गतविज्ञेयोपायादि प्रतिपादयिष्यन्नाह - सुत्ताउवायरक्खणगहणपयत्तविसया मुणेयव्वा ।। कुंभारचक्कभामगडंडाहरणेण धीरेहि ॥३४॥ १/३४
सूत्रादागमाद्, ज्ञेयानुष्ठानविषयात्, गमेन हि ज्ञाता अर्थाः अनुष्ठीयमानाः पुरुषस्य क्रियाविषया भवन्तीति चागमादेव ज्ञानक्रियारूपेण प्रवर्त्तन्ते । अतस्तेषां प्रवर्तकं सूत्रम् । ते चात्रोपायरक्षणग्रहणप्रयत्नविषया मुणितव्या विज्ञेयाः । अत्र च यथाप्राधान्येन यदुपन्यासो लाभस्तु पश्चानुपूर्व्या । पूर्वं तावद्विषयो अणुव्रतादीनां विज्ञेयः । क्व विषये, किमणुव्रतं व्यवस्थितमिति । यतोऽन्यत्र भावो विषयार्थो, विषये परिज्ञाते सत्यागमाविरुद्धं मनो-वाक्-चेष्टापरिहारेण ग्रहणयोग्यतासम्पादनाय प्रयत्नम्, प्रयत्नेऽणुव्रतग्रहणात्प्राक्कालभावी जीवगुणविशेषः, ततः प्रयत्नात् सम्पन्नयोग्यत्वस्य विवक्षिताणुव्रतग्रहणम्, तत्करणाभ्युपगमरूपमणुव्रतप्रतिपत्तिरित्यर्थः । ततः प्रतिज्ञाताणुव्रतक्रियस्य तदविरुद्धमार्गसेवनेन रक्षणमनुपालनं प्रतिदिवसाचरितशिष्टक्रियारूपं नमस्कारबोधादि । उपायस्तु रक्षणोत्तरकालभावी, लाभोचितदान-भोग-निधि-नैपुण्यादिविशेषगर्भस्तेषामेवाणुव्रतानां सातत्यपरिपालनहेतुरिह परलोकाविरुद्धः सकलशास्त्रसम्मतो नीतिविशेषः । त एते कथं विज्ञेया इत्याह-कुम्भकारचक्रभ्रामकदण्डोदाहरणेन । यथा कुम्भकारचक्रावयवाःप्रतिक्षणविवर्तिनोऽपरापरदेशस्थाद् भ्रमणहेतुदण्डाद् वेगाख्यसंस्कारात्, अतो निवर्तनक्षमात् प्रवर्तमाना उपलभ्यन्ते, सर्वैरपि लौकिकपरीक्षकैरविप्रतिपत्त्या। तथैतेऽप्युपायादयः सूत्रात्प्रवर्तन्त। एवमनेनोदाहरणेन धीरैः विद्वद्भिर्विज्ञेयाः । व्रतपरिणामपालनकाङ्क्षिभिः सर्वथा सूत्र एव यत्नो विधेय इत्यावेदितं भवति ॥३४॥