________________
१२
१-श्रावकधर्मविधि-पञ्चाशकम् गाथा-३०-३२ आहार-देह-सत्कार-ब्रह्माऽव्यापारपौषधः आहारश्च देहसत्कारश्च ब्रह्म च अव्यापारश्च, तेषु पौषधः । पोषं धर्मपुष्टिं धत्त इति व्रतविशेष एव यः पर्वस्वनुष्ठीयते । अन्यद् तृतीयं शिक्षापदम्, देशे सर्वस्मिश्चेदं वर्तते, देशपोषधरूपं सर्वपोषधरूपं चेत्यर्थः । चरमे उपन्यासक्रमप्रामाण्याद-व्यापारपोषधे, सामायिकं नियमाद् [कर्त्तव्यं अटी.] भवति । अन्यथा सामायिकलभ्यगुणाभावः ॥२९॥
अस्यैवातिचारानाह - अप्पडिदुप्पडिलेहियऽपमज्जसेज्जाइ वज्जई एत्थ । सम्मं च अणणुपालणमाहाराईसु सव्वेसु ॥३०॥ १/३०
अप्रत्युपेक्षित-दुष्प्रत्युपेक्षिता-ऽप्रमार्जितशय्यादि वर्जयत्यत्र पोषधे। अप्रत्युपेक्षितशय्यासंस्तारकं दुष्प्रत्युपेक्षितशय्यासंस्तारकमप्रमार्जितशय्या संस्तारकं दुष्प्रमार्जितशय्या संस्तारकं सम्यक् भावसारं च अननुपालनमसंरक्षणम्, आहारादिषु सर्वेषु पौषधेषु ॥३०॥
उक्तं सातिचारं तृतीयं शिक्षापदम्, अधुना चतुर्थमाह - अण्णाईणं सुद्धाण, कप्पणिज्जाण देसकालजुयं । दाणं जईणमुचियं, गिहीण सिक्खावयं भणियं ॥३१॥ १/३१
अन्नादीनामनपानप्रभृतीनां शुद्धानां न्यायागतानां कल्पनीयानां यतियोग्यानां देशकालयुतं देशकालोपपन्नं दानं सम्प्रदानं यतीनामुचितं भर्त्तव्यानुरोधेन गृहिणां शिक्षापदं भणितम्, चतुर्थमतिथिसंविभागाख्यं पोषधोत्तरकालभावि, यतस्तत्र नियमभावीदं [यद्] दत्त्वा [तदैव] भुङ्क्ते, नान्यथा, अन्यदा त्वनियमो, दत्त्वा वा भुङ्क्ते भुङ्क्त्वा वा ददाति, परिजनं व्यापारयतीति ॥३१॥
अस्यैवातिचारानाह - सच्चित्तनिक्खिवणयं वज्जइ सच्चित्तपिहणयं चेव । कालाइक्कम परववएसं मच्छरिययं चेव ॥३२॥ १/३२
सचित्तनिक्षेपणं देयद्रव्यस्य प्रमादतः सचित्तपृथिव्यादिनिक्षेपं वर्जयति परिहरति । सचित्तपिधानं चैव सचित्तेन मातुलिङ्गादिना फलेन पिधानं स्थगनमनावृतद्वारस्य सर्पिष्पात्रादेः। कालातिक्रममतिक्रान्तकालप्रदानरूपं साधुपारणोत्तरकालभाविनम् । परव्यपदेशमभ्यर्हितवस्तुविषयपरकीयभणनम्, वस्तुवृत्त्या परकीय एव साधोस्तत्राऽदित्सायामपृष्ट एव तथा प्रतिपादनमतिचाररूपम् । मात्सर्यं चैवान्यदातृविषयम्, यद्यसौ मत्तः सकाशान्निविभवादिरपि ददाति,