________________
गाथा-२७-२९ १-श्रावकधर्मविधि-पञ्चाशकम्
११ मनो-वचन-कायदुष्प्रणिधानमिह सामायिके, यत्नतः परमादरेण, विवर्जयति । दुष्प्रणिधानलक्षणं चेदं फलं च यदा कषायैरुपसृज्यते मनो-वपु-र्ध्वनिर्वा युगपत् क्रमेण वा, तदा स योगः त्रिविधोऽपि पण्डितैस्समासतो दुष्प्रणिधानमुच्यते ।
यथोक्तदोषेष्वनिवृत्तमानसः, कृतापराधोऽपि च नानुतप्यते । सदैव नर्माणि परस्य लिप्सते, मनोमयाहुष्प्रणिधानतो नरः ॥१॥(वं.) यदुच्यमानं व्यसनाय देहिनां, प्रपञ्चवाण्या च कुदृष्टिपुष्टये । अपार्थकं यच्च हि वाङ्मयं मया, तथाविधं दुष्प्रणिधानमुच्यते ॥२॥(वं.) यदीरणं लोचनपक्ष्मणापि, करोति बालः शयने स्वपन्नपि । तदुच्यते दुष्प्रणिधानमाङ्गिकं, न केवलं वेषवयोविडम्बना ॥३॥(वं.) [ ] स्मृतेरकरणम्, स्मृतिमूलं हि सर्वं धर्मानुष्ठानं निःश्रेयसाय, तेन तद् वर्जयति। अनवस्थितस्य यदृच्छासम्पाद्यस्य तथा करणकं [आसेवनं अटी.] चैव [शब्दः समुच्चयात्मकः] ॥२६॥
उक्तं प्रथमं शिक्षापदम्, साम्प्रतं द्वितीयमाह - दिसिवयगहियस्स दिसापरिमाणस्सेह पइदिणं जं तु । परिमाणकरणमेयं, अवरं खलु होइ विण्णेयं ॥२७॥ १/२७
दिग्व्रतगृहीतस्य दिक्परिमाणस्य बहुतरस्य इह प्रक्रमे, प्रतिदिनं प्रतिदिवसं यत्तु यत्पुनः परिमाणकरणं सक्षेपकरणम् एतदपरं द्वितीयम् । खलुशब्दो वाक्यालङ्कारे, भवति विज्ञेयं शिक्षाव्रतम् ॥२७॥
अस्यैवातिचारान्निवारणीयत्वेनाह - वज्जइ इह आणयणप्पओग पेसप्पओगयं चेव । सद्दाणुरूववायं, तह बहिया पोग्गलक्खेवं ॥२८॥ १/२८
वर्जयतीह द्वितीये। आनयनप्रयोगं ग्रामादेर्गवाद्यानयनव्यापारम्, प्रेष्यप्रयोगं चैव प्रेषणीयः प्रेष्यो भृत्य-कर्मकरादिस्तत्प्रतियुक्तं च । शब्दाणुपातं शब्दाणुपातमभ्युच्छ्वासितादिरूपम्, परिजनज्ञापनार्थम् । रूपाणुपातं स्वकीयरूपसन्दर्शनार्थं कार्यज्ञापनफलम् । तथा बहिरभिगृहीतविषयात्, पुद्गलक्षेपमुपलादिप्रक्षेपम् ॥२८॥
उक्तं सातिचारं [द्वितीयं] शिक्षाव्रतम्, साम्प्रतं तृतीयमाह - आहारदेहसक्कारबंभऽवावारपोसहो अण्णं । देसे सव्वे य इमं, चरमे सामाइयं नियमा ॥२९॥ १/२९ ..