________________
१०
१-श्रावकधर्मविधि-पञ्चाशकम् गाथा-२३-२६ वर्जयति, भोजन [माश्रित्यक्तमि]ति, कर्मतोऽपि । 'हुः' शब्दः पूरणे । अणुव्रतेऽङ्गारकर्मादि पञ्चदशभेद-बहुसावद्यकर्मोपलक्षणत्वाच्चान्यदपि, उक्तं द्वितीयगुणव्रतम् ॥२२॥ (१. य अटी.)
अधुना तृतीयमाह - तहण्णत्थदंडविरई, अण्णं स चउव्विहो अवज्झाणे । पमयायरिए हिंसप्पयाण पावोवएसे य ॥२३॥ १/२३
तथाऽनर्थदण्डविरतिः, अन्यत् तृतीयं गुणव्रतम्, सोऽनर्थदण्डश्चतुर्विधः - (१) अपध्यानरूपः क्लिष्टचिन्तनप्रायः (२) प्रमादाचरितः पञ्चविधप्रमादाऽऽसेविता, (३) हिंसाप्रदानरूपो हिंसनशीलानि हिंस्राण्युपकरणानि शस्त्रा-ऽग्नि-विषप्रभृतीनि प्राण्युपघातजननानि, तत्प्रदानम्। (४) पापोपदेशश्च पापविषय उपदेशः प्रोत्साहनं क्षेत्राणि कृष्यताम्, गावो दम्यताम्' इत्यादिरूपः ॥२३॥
अस्यैव तृतीयगुणव्रतस्य प्रतिषेध्यत्वेनातिचारानाह - कंदप्पं कुक्कुइयं, मोहरियं संजुयाहिगरणं च । उवभोगपरीभोगाइरेगयं चेत्थ वज्जेइ ॥२४॥ १/२४
कन्दर्पः कामः, तद्धेतुचेष्टाविशेषोऽपि कन्दर्पो हास्यादिस्तम्। कुकुचभावः कोक्रुच्यमनार्यचेष्टारूपं घतनादीनामिव । मुखरभावो मौखर्यमसंबद्धप्रलापितम् । संयुताधिकरणं चह खलमुसलादिविषयम् । उपभोगपरिभोगयोरतिरेकं वाऽधिक्यं चाधिकरणप्रवर्तकम्। निरर्थकमेवात्र तृतीयगुणव्रते वर्जयेत्॥२४॥
उक्तं गुणव्रतत्रयम् । साम्प्रतं शिक्षापदेषु सामायिकमधिकृत्याह - सिक्खावयं तु एत्थं, सामाइय मो तयं तु विण्णेयं । सावज्जेयरजोगाण, वज्जणासेवणारूवं ॥२५॥ १/२५
शिक्षाव्रतं त्वत्राभिधीयते । सामायिकं मो इति निपातः, तकद् विज्ञेयम् । तच्च विधिप्रतिषेधस्वरूपमित्याह । सावद्येतरयोगानां सपापेतरव्यापाराणाम्, वर्जनासेवनारूपं परिहार-प्रवृत्तिरूपम् ॥२५॥
अस्यैवातिचारान् परिहार्यत्वेनाह - मणवयणकायदुप्पणिहाणं इह जत्तओ विवज्जेइ । सइअकरणयं अणवट्ठियस्स तह करणयं चेव ॥२६॥ १/२६