________________
गाथा-१९-२२ १-श्रावकधर्मविधि-पञ्चाशकम्
उक्तान्यणुव्रतानि, गुणव्रतानां प्रथमं दिग्व्रतमाह - उड्डाहो तिरियदिसिं, चाउम्मासाइकालमाणेणं । गमणपरिमाणकरणं, गुणव्वयं होइ विण्णेयं ॥१९॥ १/१९
ऊर्ध्वाधस्तिर्यग् दिशि सर्वासु दिक्ष्वित्यर्थः चातुर्मासादिकालमानेनाभिग्रहविशेषरूपेण, गमनपरिमाणकरणं गमनपरिच्छेदव्यवस्थापनम्, गुणवतं भवति विज्ञेयं दिग्व्रतमित्यर्थः ॥१९॥
अस्यैवातिचारान् वर्जनीयत्वेनाह - वज्जइ उड्डाइक्कममाणयणप्पेसणोभयविसुद्धं ।। तह चेव खेत्तवुढेि, कहंचि सइअंतरद्धं च ॥२०॥ १/२०
वर्जयत्यूर्खादिक्रममूर्ध्वाधस्तिर्यग् व्यतिक्रममित्यर्थः । अनेनैवातिचारत्रयं सङ्ग्रहीतम्, नयनं ग्रामान्तरादेः [स्थितस्य वस्तुनः अटी.] प्रेषणं तेष्वेव उभयमेकदा तेष्वेव, तैर्विशुद्धमभिगृहीतक्षेत्रादेः परस्तादानयनादिवर्जनेन । तथा चैव क्षेत्रवृद्धिम् अन्यस्यां दिश्येकयोजनादिप्रक्षेपरूपम्, कथञ्चित् प्रमादाद् स्मृत्यन्तर्धानं स्मृतेरन्तर्धानं व्यवधानं विस्मृतिः [चशब्दः समुच्चयेअटी.] ॥२०॥
उक्तं प्रथमं गुणव्रतम्, द्वितीयमाह - वज्जणमणंतगुंबरिअच्चंगाणं च भोगओ माणं । कम्मयओ खरकम्माइयाण अवरं इमं भणियं ॥२१॥ १/२१
वर्जनमनन्तकोदुम्बरिकाऽत्यङ्गानामनन्तकायस्य पञ्चफलोपलक्षणोदुम्बरिकायाः अतिशयवन्ति भोगोपभोगानि तेषाम् । चशब्दो भिन्नक्रमः, भोगतो मानं च, भोगपरिमाणं चेहात्र द्रष्टव्यः, भोजनमाश्रित्योक्तं भोगपरिमाणम्, कर्मतः कर्माश्रित्य खरकर्मादिकानाम' (चु)ल्लिकप्रभृतीनामन्येषां च लोहकारादीनां कर्मणां वर्जनम् अवरमिदं भणितं द्वितीयगुणव्रतमित्यर्थः ॥२१॥ (१. निस्त्रिंशजनोचितकठोरारम्भाणां कोट्टवालगुप्तिपालकर्मादीनाम्, अटी.)
अस्यैव भोगकर्मविषयस्यातिचारवर्जनमाह - सच्चित्तं पडिबद्धं, अपउल दुप्पउल तुच्छभक्खणयं । वज्जइ कम्मयओ वि 'हु, एत्थं इंगालकम्माई ॥२२॥ १/२२
सचित्तमागमप्रसिद्ध फलादिप्रतिबद्धम् । सचित्ताऽस्थिकं प्रतिबद्धं परिपक्वम्, अपक्वम् धान्यं चणकादि 'दुपउलं' [दुष्पक्वम्] तदेवाऽर्धपक्वम्, तुच्छोषध्यो निस्सारास्तेषांमपक्कादीनां भक्षणं