SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ गाथा-७-१० १-श्रावकधर्मविधि-पञ्चाशकम् व्रतप्रभृतीनीत्युक्तं, तान्येवाहपंच उ अणुव्वयाई, थूलगपाणवहविरमणाईणि । उत्तरगुणा तु अण्णे, दिसिव्वयाई इमेसि तु ॥७॥ १/७ पञ्च तु पञ्चैव अणुव्रतानि महाव्रतापेक्षया स्थूलकप्राणिवधविरमणादीनि स्थूलप्राणातिपातविरत्यादीनि, उत्तरगुणा तस्य चान्येऽपरदिग्वतादयः, आदिशब्दात् शिक्षापदपरिग्रहः । एषां तु श्रावकाणामेतानि भवन्ति येषां धर्मो विवक्षितः ॥७॥ प्रथमाणुव्रतमधिकृत्याहथूलगपाणवहस्सा, विरई दुविहो य सो वहो होइ । संकप्पारंभेहिं, वज्जइ संकप्पओ विहिणा ॥८॥ १/८ स्थूलप्राणवधस्य समयप्रसिद्धस्य विरतिनिवृतिः द्विविधश्च द्विप्रकारश्च स वधः प्राणातिपातो भवति सङ्कल्पा-ऽऽरम्भाभ्याम् सङ्कल्पः प्राणिव्यापादनाभिसन्धिः, आरम्भ उपतापमर्दोऽसञ्चिन्त्य कृतो, वर्जयति परिहरति वध इति गम्यते । सङ्कल्पतः सङ्कल्पमाश्रित्य, न त्वारम्भम्, तत्प्रवृत्तत्वात् शास्त्रोक्तविधानेन, तं च सङ्कल्पजमत्र योजनीयम् ॥८॥ तं वर्जनीयत्वेन प्रतिपद्य किं करोतीत्याह - गुरुमूले सुयधम्मो, संविग्गो इत्तरं व इयरं वा । वज्जित्तु तओ सम्मं, वज्जेइ इमे य अइयारे ॥९॥ १/९ गुरुमूले गुर्वभ्यासे स श्रुतधर्माऽवगतधर्मा संविग्नः संसारभीतः, इत्वरं वा स्वल्पकालं प्रतिनियतचातुर्मासादिरूपम् इतरं वा यावज्जीवरूपं वर्जयित्वा वधमिति सम्बन्धः । ततो विरत्युत्तरसम्यग्भावतो वर्जयति वर्जनीयांश्चाऽतिचारान् [इमान् ] वक्ष्यमाणान् ॥१/९॥ तानेव प्रथमाणुव्रतातिचारान् प्रतिषेधद्वारेणोपदर्शयितुमाह - 'बंधवहछविच्छेयं, अइभारं भत्तपाणवोच्छेयं । कोहाइदूसियमणो, गोमणुयाईण नो कुणई ॥१०॥ १/१० बन्धः संयमनं दामरज्वादिभिः, वधः ताडनं लत्ता-लकुटादिभिः, छविः शरीरं तस्य छेदः बन्धश्च वधश्च छविच्छेदश्व बन्ध-वध-च्छविछेदम् । अतिभारमतिभारारोपणम्, भक्तपानव्यवच्छेदमाहारनिरोधम्। क्रोधादिदूषितमनाः कषायकलुषितचित्तः, गो-मनुजादीनामादिशब्दाद्
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy