________________
१-श्रावकधर्मविधि-पञ्चाशकम्
गाथा-४-६ ___ 'तत्त्वार्थश्रद्धानम्' इत्यनेन सम्यक्त्वरूपमुपात्तम्, 'असद्ग्रहो नैतस्मिन्' इत्यनेन त्वनर्थप्रतिघात उक्तः । 'शुश्रूषादयस्तु भवन्ति' इत्यनेन त्वर्थसंसिद्धिरुक्ता, अनर्थप्रतिघातपूर्वकत्वादर्थसंसिद्धि, एवमुपन्यासः ॥३॥
सम्यक्त्वाऽविनाभावलिङ्गान्याह - सुस्सूस धम्मराओ, गुरुदेवाणं जहासमाहीए। वेयावच्चे नियमो, वयपडिवत्तीए भयणा उ ॥४॥ १/४
श्रोतुमिच्छा शुश्रूषा धर्मशास्त्रविषया । धर्मरागो धर्माभिलाषो गुरु-देवानां पूज्यनमस्कार्याणाम्। यथासमाधि समाध्यनतिक्रमेण, स्वमनःसमाधानानुल्लङ्घनेन । वैयावृत्त्ये व्यावृत्तस्य भावे, तत्त्वार्थप्रणामार्चनविषये । नियमोऽभिग्रहोऽवश्यंभावः । सम्यक्त्वे सति व्रतप्रतिपत्तौ तु भजना विकल्पना, स्याद् वा न वा व्रतप्रतिपत्तिः ॥४॥
किमिति भजनेत्याह - जं सा अहिगयराओ, कम्मखओवसमओ न य तओ वि । होइ परिणामभेया, लहुं ति तम्हा इहं भयणा ॥५॥ १/५
यद् यस्मात् कारणात्, सा व्रतप्रतिपत्तिविरतिः अधिकतराद् बहुतराद् सम्यक्त्वलाभकालापेक्षया कर्मक्षयोपशमतो ज्ञानावरणादिकर्मक्षयोपशमाद् भवति। न च नैव, तकोऽप्यसावपि सम्यक्त्वप्रतिपत्तिहेतुः, कर्मक्षयोपशमो भवति जायते। परिणामभेदाज्जीवपरिणतेर्भेदात्, सम्यक्त्वे सत्यपि व्रतपरिणामानुपपत्तेः, लध्विति शीघ्रमेव, तस्मादिह व्रतप्रतिपत्तौ भजना नियमः । शुश्रुषादिषु तु नियम एवेति ॥५॥ (१. तओ उ-अटी.)
किमिति भजनेत्याह - सम्मा पलियपुहत्ते, अवगए कम्माण भावओ हुंति ।। वयपभिईणि भवण्णवतरंडतुल्लाणि नियमेण ॥६॥ १/६
सम्यक्त्वात् सम्यक्त्वप्रतिपत्तिकालात्, पल्योपमपृथक्त्वे समयप्रसिद्ध ऽपगते, क्षीणकर्मणां तद्विध्यातहेतूनां स्वभावस्थित्या कालगमनेन स्थितिक्षयापहारेण वा । भावतो भावमाश्रित्यान्तरपरिणामरूपतया [नियमेन] भवन्ति जायन्ते, व्रतप्रभृतीन्यणुव्रतगुण[व्रत]शिक्षापदानि, तथाविधदेशचारित्रमोहनीयक्षयोपशमजन्यानि, भवार्णवतरण्डतुल्यानि संसारसमुद्रतरणे [नौ]कल्पानि॥६॥