SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ गाथा - १-३ १- श्रावकधर्मविधि-पञ्चाशकम् इष्टविशिष्टदेवतानमस्कारपूर्वकं प्रयोजना -ऽभिधेय - सम्बन्धत्रयप्रदर्शनाय गाथां निजगाद नमिऊण वद्धमाणं, सावगधम्मं समासओ वोच्छं । सम्मत्ताई भावत्थसंगयं सुत्तनीईए ॥१॥ १/१ नत्वा प्रणम्य, वर्धमानं महावीरस्वामिनम्, श्रावकधर्मं श्रावको वक्ष्यमाणः, तस्य धर्मः, तम् । समासतः सङ्क्षेपेण, वक्ष्येऽभिधास्ये । सम्यक्त्वादयो भावा विशेषलक्षणाः, त एवार्थास्तैः सङ्गतं युक्तम् । सूत्रनीत्यागमनीत्या । अत्र 'नत्वा वर्धमानम्' इत्यनेन देवतानमस्कार उक्तः, अर्हत्त्वं च गुणतः, देवतात्वं च परमगत्यवाप्त्या। ‘समासतो वक्ष्ये' इत्यनेन समासप्रतिपादनम् । 'सूत्रनीत्या' शिष्येभ्यः प्रकरणप्रयोजनमाह । ‘श्रावकधर्मम्' इत्यनेनाऽभिधेयम् । सम्बन्धस्तु प्रकरणप्रयोजनोपायोपेयलक्षणः सामर्थ्यगम्य एव तर्कानुसारिणः, तथाहि - शब्दसन्दर्भरूपं प्रकरणमुपायस्तदर्थप्रतिपादनं तु शिष्यगतमुपेयम् । उक्तं च I = अस्येदं फलमित्येवं, योग: सम्बन्ध उच्यते । तथाऽप्यन्तर्गतत्वेन न पृथक् कैश्चिदिष्यते ॥ १ ॥ [ ] इति 'श्रावकधर्मं वक्ष्ये' इत्युक्तम्, तत्र कः श्रावकः, यस्यायं धर्मः ? इत्याह पर लोगहियं सम्मं, जो जिणवयणं सुणेइ उवउत्तो । अइतिव्वकम्मविगमा, सुक्कोसो सावगो एत्थ ॥२॥ ३ १/२ परलोकाय हितम् पथ्यम्, सम्यगविपरीतम् यः पुरुषो [जिनवचनं ] जिनधर्मः स्वाध्यायचारित्रलक्षणम्, शृणोति [ उपयुक्तः उपयोगयुक्तः ] आकर्णयत्युपादेयबुद्ध्या । अतितीव्रकर्मविगमादतिक्लिष्टमिथ्यादर्शनमोहनीयकर्माऽपगमात् [स:] उत्कृष्टसम्यग्दृष्टितया श्रावकोऽत्र [उच्यते] ॥२॥ किं पुनः सम्यक्त्वं यत्सम्बन्धादसौ श्रावक: ? इत्याह - तत्तत्थसद्दहाणं, सम्मत्तमसग्गहो न एयम्मि । मिच्छत्तखओवसमा, सुस्सूसाई उ हुंति दढं ॥३॥ १/३ तत्त्वार्थश्रद्धानं सम्यक्त्वम्, असद्ग्रहो विपरीतबोधो मिथ्यावबोधो नैतस्मिन् सम्यक्त्वे सति मिथ्यात्वक्षये [क्षयोपशमे] यस्माद्धेतोः शुश्रूषादयस्तु शुश्रूषा - श्रवण-ग्रहण-धारणादयः पुनर्भवन्ति दृढमित्यर्थः ।
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy