________________
१- श्रावकधर्मविधि-पञ्चाशकम्
[ ज्ञानमाहात्म्यम् ]
तस्य च सकलनरा-ऽमर - महर्षिपूजनीयस्य, सर्वसत्त्वहितसम्पादननिरतस्वभावस्य सर्वावस्थासुन्दरस्य जगदतिशायिविपच्यमानपुण्यराशेर्भगवतो धर्मतीर्थकरस्येव सुगृहीतनाम्नो महामहिम्नः सन्तानापेक्षाऽव्यवच्छिन्नवृत्तेर्धर्मस्य, मूलमागमिकममलबोधात्मकं सम्यग् ज्ञानम् । "यः खलु सम्यग् बोधो हेयोपादेयवस्तुविषयगतः, ज्ञानावरणापरासा(गमा)ज्जीवस्य स उच्यते ज्ञानम् । [ ] इति वचनात् । स चागमो विषय-विषयिभागेन निरूप्यमाणः, प्रज्ञातिशयविशेषसंपन्नैर्गम्भीरोदाराऽऽशयभाग्भिरतीन्द्रियार्थवेदिभिर्भगवदनन्तरस्थानवर्तिभिर्गणधरैस्तच्छिष्यैश्च, त्रिधा व्यवस्थापितोऽर्थज्ञानवचनभेदात्, तत्र (१) अर्थागमः परमार्थसत् जीवाजीवरूपः, सामान्येन सर्वपदार्थव्यक्तिसङ्ग्रहाद्, विशेषतस्तु समयसविवधं (सविधं ? ) चास्तिकायात्मकः । (२) ज्ञानागमस्तु द्रव्यपर्या[य]योः यः स्वभाव - वस्तुविषयो ज्ञेयपरिच्छेदात्मकतया प्रतिलब्ध (ब्धि) स्वरूपः, समस्तसजातीय-विजातीयव्यावृत्ताऽसाधारणस्वलक्षणाऽभिलाषा (लाप्य) धर्मगोचर: प्रसिद्ध एव । (३) स्व-परसमयवेदिनां वचनं नागमः पुनरतिप्रकृष्ट-पा [ रा ] यतमतीनां प्रज्ञापनीयानन्तभागवर्त्तिसमानपरिणामपातिवन्नु(दुर्ण) धर्मालम्बनरूपाऽभिलाप्यवस्तुधर्माऽऽलम्बनः, सकलशास्त्रव्यापी, निखिलव्यवहारनिदानम्, हेयोपादेयोपेक्षणीयनिवेदनकारी, सुधियामास्थाहेतुरविप्रतिपत्त्या परिस्फुरन्निव पुरस्तात्, सर्ववेद्य - वेदकस्वरूपाऽमितकौशलाऽव्यभिचारितया स्व- परसिद्धान्तसाध्योपदेशभाक्, परमार्थत एक एव तत्त्वदृशां विसंवादस्यैवाऽनागमहेतुत्वोपपत्तेः शिष्टानुमतमूलागमानुसारिनिष्कलङ्कप्रेक्षावत्प्रज्ञासमालोचितसर्व-सत्त्वहिताऽविरुद्धानुष्ठानगर्भः, विदुषां महोदयानन्दनिबन्धनं सर्वशास्त्रहृदयावबोधप्रसृतिहेतुः, वागीश्वरदेवाधिष्ठितः अष्टचत्वारिंशद्दिव्यसहस्रकोशः प्राभृतपूज्यः, पूज्यपादानां चतुर्दशपूर्वविदादीनामतिप्रतीत एव । तस्य च निखिलाश्चर्यवन्निधानस्यैकदेशार्थोद्धाररूपाशेषाङ्गोपाङ्गप्रकीर्णस्य, अनादिनिधनस्य लवमात्रार्थोपनिबन्धनानि सर्वाण्येव स्व-परसमयवचांसि मन्यमानः, परममध्यस्थतामवलम्ब्य श्रोतृषु, सदनुष्ठानाऽवन्ध्यकारणमिह - परलोकसुखावहम्, धर्मनिमित्तमाद्यं सम्यग् ज्ञानम् । आत्मचित्त (त्ताभिन्न) विज्ञानसदृशनिश्चयरूपम् । परमकरुणया हितकाम्यया प्रवर्तितमतिः [तत् ] समुत्पिपादयिषुराचार्य: प्राकृत-प्रकरणप्रबन्धमकार्षीत्, स च धर्मो द्विधा, गृहस्थधर्मः साधुधर्मश्च । तत्र भूयसा व्यवसायस्थानप्रत्यासत्त्या, द्वितीयस्य प्रथमपूर्वकत्वात्, आदौ तमेव कतिचित् प्रकरणेषु अधिचक्रे । पूर्वस्मिन् निष्णातमतिरभ्यस्तनिरवद्यशुभक्रियोऽथोत्तरमपि सुखेनैव ज्ञानानुष्ठानविषयीकरिष्यतीति तदनु द्वितीयम् । एवं व्यवस्थितक्रमो धर्मस्याद्यं प्रतिपिपादयिषयाह,
२
गाथा - १