________________
॥ श्रीशत्रुञ्जयतीर्थमण्डनश्रीआदिनाथाय नमः ॥ ॥ श्रीशङ्केश्वरपार्श्वनाथाय नमः ॥
॥नमः ॥ परमपूज्याचार्यश्रीयशोभद्रसूरिविरचितवृत्तियुतं याकिनीमहत्तराधर्मसूनुश्रीहरिभद्रसूरिविरचित
| श्रीपञ्चाशकप्रकरणम् । ॥ प्रथमं श्रावकधर्मविधि-पञ्चाशकम् ॥
___ [टीकाकृन्मङ्गलम्] सर्वातिशयसम्पन्नमनादिनिधनं स्फुटम् । जैनं जयति रागादि-विच्छेदचतुरं वचः ॥१॥ भत्यै सरस्वति ! न ईश्वरि ! देवि ! भूयाः, यस्याः प्रसादवशतो रुचिनिर्मलत्वम् । वाचां भवत्यवितथाऽमलिनप्रबन्धम्, विद्वद्भिरर्चितगुणं गुणवद्भिरग्र्यम् ॥२॥
[धर्माधिकारी फलवर्णनं च] इह जन्मान्तरोपचितस्वकुलप्रवाहपरिपाकवताम्, विमलप्रज्ञाऽतिशयविशोधिताशयानाम्, निरन्तरं सुखसम्पत्समन्वितानाम्, महात्मनामितरेषां चाऽनर्वाक्पारजाति-जरा-मरणप्रवाहसलिलाऽऽपूर्णभवजलधिमध्यावस्थितानाम्, [रागद्वेषमोहोपनिहता] ध्यवसायानाम्, अनेकशारीरमानसव्यसनसहस्रोपद्रुतानाम्, सकलकल्याण[परंपरानिर्वतनाक्षमे, चिन्ता मणिकल्पद्रुमोपमे निरुपमाद्या(मव्या) पारस्वभावैकान्तिकान्त्यन्तिकसुखपरमपदहेताविह-परलोकयोराश्वासनिबन्धने धर्म एवादरो विधातुमर्थ-कामयोग(रा)स्थां विहाय युक्तः, यतः -
"धर्मादभ्युदयो लोके, तथा निःश्रेयसं च यत् । अतः कल्याणकामेन, सदा सेव्यः स एव हि ॥१॥[ ] इति विद्वज्जनैरुक्तम्।