SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ गाथा १-श्रावकधर्मविधि-पञ्चाशकम् गाथा-११-१३ महिष्यजाकिकादिग्रहः । न करोति न विधत्ते, क्रियापदं सर्वत्र योजनीयम् । क्रियायामनुवर्तमानायामपि न करोतीति तात्पर्यम् ॥१०॥ (१. वहबंधं - अटी बंधवहं-जे ।) उक्तं सातिचारं प्रथमाणुवतम्, द्वितीयमाह - थूलमुसावायस्स य, विरई सो पंचहा समासेणं । कण्णागोभोमालिय, नासहरण कूडसक्खिज्जे ॥११॥ १/११ स्थूलमृषावादस्य चागमप्रसिद्धस्य विरतिः। स मृषावादः पञ्चविधः समासेन सङ्ग्रहेण, स च द्विपद-चतुष्पदा-ऽपदविषय इति मन्यमानस्तदुपलक्षणाय वक्ति । कन्यालीकरूपो गवालीक-रूपो भूम्यलीकरूपश्च । कन्याग्रहणं सर्वकुमारादिद्विपदविशेषोपलक्षणम्, गोग्रहणं सर्वचतुष्पदभेदोपलक्षणम्, भूमिग्रहणं पृथिव्यप्तेजोवायुवनस्पतिजात्युपलक्षणम्, न्यासहरणालीकरूपोऽदत्तादानविषयं विहाय वाग्विषयः । कूटसाक्ष्यमनृतसाक्ष्यम् लोकप्रसिद्धमेव। एष पञ्चविधो मृषावाद इति ॥११॥ (१. अत्र जातिपदं स्वरूपबोधकम् ।) अस्यैवाणुव्रतस्य वर्जनीयत्वेनातिचारानाह - इह सहसाऽब्भक्खाणं रहसा य सदारमन्तभेयं च । मोसोवएसयं कूडलेहकरणं च वज्जेइ ॥१२॥ १/१२ [इह-स्थूलमृषावादविरतौ-अटी.] सहसाऽसमीक्ष्य, अभ्याख्यानमनृतदोषोद्भावनम्, चौरस्त्वमित्यादिकम् । रहसा च रहस्येनार्थेनाभ्याख्यानम् इदमनेन प्रच्छनं संवृत्तम्' [इत्यादिकम् । स्वदारमन्त्रभेदं च स्वकलत्रविश्रब्धभाषितान्यकथनं च । मृषोपदेशनं विवादे त्वयेदं वक्तव्यम् । कूटलेखकरणं च कूटलेखितकरणं च भ्रान्तिजनकं वर्जयेत् परिहरेत् ॥१२॥ उक्तं सातिचारं द्वितीयम् । अधुना तृतीयाणुव्रतं विषयभेदेन निरूपयन्नाह - थूलादत्तादाणे, विरई तं दुविह मो विनिद्दिटुं । सच्चित्ताचित्तेसुं, लवणहिरण्णाइवत्थुगयं ॥१३॥ १/१३ स्थूलाऽदत्ताऽऽदाने [स्थूलाऽदत्ताऽऽदानम्-अटी.] समयप्रसिद्ध विरतिः, तृतीयमदत्तादानम्, तद् द्विविधम् । मो इति निपातः पूरणार्थः । विनिर्दिष्टं कथितम् । सचित्ताचित्तयोविषयकृतयोः निदर्शनेनोपदर्शयति-लवणहिरण्यादिवस्तुगतम् । लवणं सचित्तम्, हिरण्यमचित्तम्, आदिशब्दात् सचित्तेतरसकलविशेषपरिग्रहः ॥१३॥ (१. उ निद्दिटुं-पा. । २. लवणपदमत्र सचित्तमात्रग्राहकम् ।)
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy