________________
परिशिष्टम्-६
अभयदेवीयावृत्त्या उद्धृत्ता दृष्टान्ताः _ [अत्र यशोभद्रीयवृत्यां ये दृष्टान्ताः न व्याकृताः तेऽत्र अभयदेवीयटीकातः स्पष्टतरा उद्धृताः सन्ति]
(१) वन्दनायां रूपकदृष्टान्तः
छेकश्चासौ शुद्धः कूटकश्च कथञ्चिदशुद्धश्छेककूटकः स चासौ रूपकश्च द्रम्मः च्छेककूटकरूपकः स एव तस्य वा ज्ञातं निदर्शनं छेककूटकरूपकज्ञातम् तद् भणन्ति वदन्ति । समयविदः सिद्धान्तवेदिनो भद्रबाहुस्वामिप्रभृतयः । तन्त्रेष्वावश्यकनियुक्त्यादिशास्त्रेषु । तथाहि - "'रूप्पं टंकं विसमाहयक्खरं न विय रूवओ छेओ । दोहं पि समाओगे रूवो च्छेयत्तणमुवेति ॥१॥" चित्रभेदं बहुप्रकारं चतुर्विकल्पमित्यर्थः । इह स्थाने यदिति शेषो दृश्यः । तदपि च्छेदकूटकरूपकज्ञातमपि, न केवलं द्रव्यलिङ्गग्रहणानन्त्येनाशुद्धत्वमस्या भावनीयमित्यपिशब्दार्थः । हुशब्द एवकारार्थो भिन्नक्रमश्चेति इहेति वन्दनायां परिभावनीयमेव पर्यालोचयितव्यमेव । इति शब्दो वाक्यार्थसमाप्तौ । इति गाथार्थः ॥३/३४॥
१-अस्या व्याख्या-अत्र तावच्चतुर्भगी। रूप्रमशुद्धं टंकं विषमाहताक्षरमित्येकः, रूप्रमशुद्धं टंकं समाहताक्षरमिति द्वितीयः, रूपं शुद्धं टंकं विषमाहताक्षरमिति तृतीयः, रूपं शुद्धं टंकं समाहताक्षरमिति चतुर्थः । अत्र च रूपकल्पं भावलिंगं, टंककल्पं द्रव्यलिंगं । इह च प्रथमभङ्गतुल्याश्चरकादयः, अशुद्धोभयलिङ्गत्वात् । द्वितीयभङ्गतुल्याः पार्श्वस्थादयः, अशुद्धभावलिङ्गत्वात्। तृतीयभङ्गतुल्याः प्रत्येकबुद्धाः अन्तर्मुहूर्तमानं कालमगृहीतद्रव्यलिङ्गाः । चतुर्थभङ्गतुल्याः साधवः शीलयुक्ताः गच्छतो निर्गताश्च जिनकल्पिकादयः । यथा रूपको भङ्गत्रयान्तर्गतः अच्छेक इत्यविकलं, तदर्थक्रियार्थिना नोपादीयते, चतुर्थभङ्गनिरूपित एवोपादीयत । एवं भङ्गत्रयनिदर्शिताः पुरुषा अपि परलोकार्थिनौघतो न नमस्करणीयाः, चरमभङ्गकनिदर्शिता एव नमस्करणीया इति भावना । अक्षराणि त्वेवं नीयन्ते-रूपं शुद्धाशुद्धभेदं, टंकं विषमाहताक्षरं, नैव रूपकश्छेकोऽसांव्यवहारिक इत्यर्थः । द्वयोरपि शुद्धरूपसमाहताक्षरटंकयोः समायोगे सति रूपकश्छेकत्वमुपैतीति गाथार्थः ॥
22