________________
गाथा-२८-३१ १८-भिक्षुप्रतिमा-पञ्चाशकम्
२३७ एवं चिय कल्लाणं, जायइ एयस्स इहरहा न भवे । सव्वत्थावत्थोचियमिह कुसलं होइऽणुट्ठाणं ॥८७४॥ १८/२८
एवमेवाधिकतरदोषसम्पादनैव, कल्याणमभिवाञ्छतारोग्यं, जायते प्रादुर्भवति एतस्य लूताग्रस्तकरनृपस्य, इतरथाऽन्यथा च्छेद-दाहादिनिषेधेनापमार्जनमात्रात् न भवेत् न स्यात्, कल्याणम्, अधिकतर-दोषोदयाद्विनाशप्राप्तेः, सर्वत्र सर्वस्मिन्नेव, पुरुषादौ, अवस्थोचितमवस्थायोग्यमिह कुशलं श्रेयोनिबन्धनत्वेन, भवति जायते, अनुष्ठानं कर्तव्यविशेषरूपम्॥२८॥
इय कम्मवाहिकिरियं, पव्वज्जं भावओ पवण्णस्स । सइ कुणमाणस्स तहा, एयमवत्थंतरं णेयं ॥८७५॥ १८/२९
इत्येवं कर्मव्याधिक्रियां कर्मरोगचिकित्सां प्रव्रज्यां दीक्षां भावतो गुरु-लाघवापेक्षया, प्रपन्नस्याभ्युपगतवतः, सदा सर्वकालं कुर्वतः कर्मव्याधिचिकित्सां तथा तेन गच्छवासोक्तप्रकारेण, एतत्प्रतिमाकल्पानुष्ठानं अवस्थान्तरमधिकदोषहेत्वहिदष्टादिकल्पं तीव्रकर्मोदयरूपं ज्ञेयं ज्ञातव्यम्, तेनावस्थान्तररोगविशेषसमस्तुल्यः प्रतिमाकल्प इति स्थितम् ॥२९॥
अवस्थाविशेषोचित एवायं प्रतिमाकल्पः सामान्येन गच्छवासाद् गरीयानित्युपदर्शयन्निदमाहतह सुत्तवुड्डिभावे, गच्छे सुत्थंमि दिक्खभावे य । पडिवज्जइ एयं खलु, न अण्णहा कप्पमवि एवं ॥८७६॥ १८/३०
तथा तेन पूर्वप्रवृत्तव्यवहारेण, सूत्रवृद्धिभावे सूत्रार्थोभयप्रदानवृद्धिसम्भवे, तस्मिन्नस्खलिते प्रवर्तमान इत्यर्थः, [अथवा अकारप्रश्लेषात् 'सूत्राऽवृद्धिभावे= किञ्चिदूनदशपूर्वाधिकतरश्रुतग्रहणशक्त्यभावे इत्यर्थः-अटी.] गच्छे समुदाये । सुस्थे विवक्षितबाधापरित्यागेन, दीक्षा(क्ष्या) भावे चाधिकतरगुणप्रव्रजनीयाभावे च प्रतिपद्यत अभ्युपगच्छति एतं प्रतिमाकल्पम्, खलुशब्दो वाक्यालङ्कारे, न नैव अन्यथा प्रकारत्रयमहत्तमगुणसम्पादकाभावे, कल्पमपि धर्मसम्पादनसमर्थमपि, प्रतिमाकल्पमेवमागमोक्तनीत्या ॥३०॥ इहरा न सुत्तगुरुता, तयभावे न दसपुब्विपडिसेहो । एत्थं सुजुत्तिजुत्तो, गुरुलाघवचिंतबझंमि ॥८७७॥ १८/३१
इतरथाऽन्यथा यथाकथञ्चित् प्रतिमाकल्पप्रतिपत्तौ, न सूत्रगुरूता न भगवदागमस्य गौरवम्, तदभाव सूत्रगुरुताया अभावे, न नैव दशपूर्विप्रतिषेधः चतुर्दश-दशपूर्वधरप्रतिमाकल्पप्रतिषेधः, अत्रैतस्मिन् प्रतिमाकल्पे, सुयुक्तियुक्तः संन्यायसङ्गतः, गुरुलाघवचिन्ताबाह्ये यथाकथञ्चित्करणीयतयाऽभ्युपगम्यमाने ॥३१॥