________________
२३८
गाथा-३२-३५
१८-भिक्षुप्रतिमा-पञ्चाशकम् ___ का पुनर्गुरुलाघवचिन्तेत्याह -
अप्पपरिच्चाएणं, बहुतरगुणसाहणं जहिं होइ । सा गुरुलाघवचिंता, जम्हा णाओववण्ण त्ति ॥८७८॥ १८/३२
अल्पपरित्यागेन स्तोकगुणपरित्यागेन, बहूनां गुणानां संसाधनं संसिद्धिः यत्र भवति जायते, सा गुरुलाघवचिन्ता यस्माद्धेतोायोपपन्ना इति न्यायसङ्गता ॥३२॥
वेयावच्चुचियाणं, करणनिसेहेणमंतरायं ति । तं पि हु परिहरियव्वं, अइसुहुमो होउ एसो त्ति ॥८७९॥ १८/३३
वैयावृत्त्योचितानां गुरुबालवृद्धादीनां, करणनिषेधेन प्रतिमाकल्प इति प्रतिपत्त्या, अन्तरायमिति वैयावृत्त्यान्तरायः, तदपि चान्तरायं परिहर्तव्यम् पारमार्थिकान्तरायाभावात्, अतिसूक्ष्मस्त एष दोष [भवतु] इति । अतिसूक्ष्मे दोषे मूढता पुनरेष वैयावृत्त्यान्तरायाभिप्रायः, तत्साध्यस्यार्थस्यान्येनापि सम्पादयितुं शक्यत्वात्, तथा हि गच्छवासिनो गुरुबालवृद्धवैयावृत्त्येषु भूयांस एव यथाशक्ति प्रवर्तन्ते, न प्रतिमाकल्पस्य प्रतिपत्तरि सत्यपि तत्कार्यस्य क्षतिः, तस्माद् सदालम्बनमेतत् ॥३३॥
ता तीए किरियाए, जोग्गयं उवगयाण नो गच्छे । हंदि उविक्खा णेया, अहिगयरगुणे असंतंमि ॥८८०॥ १८/३४
तत्तस्मात् तस्याः क्रियायाः प्रतिमाप्रतिपत्त्यादिकायाः, योग्यतां क्षमत्वम् उपगतानां प्राप्तानाम्, नो नैव, गच्छ समुदाये, हन्तोपेक्षा प्रतिमाकल्पप्रतिपत्त्यौदासीन्यरूपा, ज्ञेया ज्ञातव्या, अधिकतरगुणे सूत्रवृद्धयादिरूपे, असत्यविद्यमाने, तस्मिंस्तु सति स्फुट एव तत्प्रतिषेधः, तस्मात्तत्कल्पोचितानां तत्प्रवृत्तिरेव विधेयेति भावः ॥३४॥
परमो दिक्खुवयारो, जम्हा कप्पोचियाण वि णिसेहो । सति एयंमि उ भणिओ, पयडो च्चिय पुव्वसूरीहिं ॥८८१॥ १८/३५
परमः प्रधानो, दीक्षोपकारः प्रव्राजनीयोपकारो वर्तते । यस्मात, कल्पोचितानामपि जिनकल्प-प्रतिमाकल्पोचितानामपि, निषेधः प्रतिषेधः, सति विद्यमाने, एतस्मिन् दीक्षोपकारे, भणित उक्तः, प्रकट एव स्फुट एव पूर्वसूरिभिः पूर्वाचार्यैः ॥३५॥