SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २३६ १८-भिक्षुप्रतिमा-पञ्चाशकम् गाथा-२४-२७ धर्मकायस्य धर्मशरीरस्य, सुश्लिष्ट सुयुक्तमेतत्, ॥२३॥ एवं पडिमाकप्पो, चिंतिज्जंतो उ निउणदिट्ठीए । अंतरभावविहीणो, कह होइ विसिट्टगुणहेऊ ? ॥८७०॥ १८/२४ एवमुक्तनीत्या, यावत् प्रतिमाकल्पः प्रागुक्तः, चिन्त्यमानस्त्वालोच्यमानस्तु निपुणदृष्ट्या। आन्तरभावविहीनः क्रियामात्रसारः कथं भवति जायते विशिष्टगुणहेतुर्विशिष्टोपकारनिमित्तम् ॥२४॥ भण्णति विसेसविसओ, एसो न उ ओहओ मुणेयव्यो । दसपुव्वधरादीणं, जम्हा एयस्स पडिसेहो ॥८७१॥ १८/२५ भण्यत अभिधीयते, विशेषेण विषयो विशेषगोचरः, एषः प्रतिमाकल्पः, न तु नैव ओघतः सामान्येन, मुणितव्यो ज्ञातव्यो विशिष्टगुणहेतुत्वेन, दशपूर्वधरादीनाम्, आदिशब्दाच्चतुर्दशपूर्ववत्परिग्रहः, यस्मादेतस्य प्रतिमाकल्पस्य प्रतिषेधः परिहार उक्तः ॥२५॥ पत्थुयरोगचिगिच्छावत्थंतरतव्विसेससमतुल्लो । तह गुरुलाघवचिंतासहिओ तक्कालवेक्खाए ॥८७२॥ १८/२६ प्रस्तुता चासौ रोगचिकित्सा च तस्या अवस्थान्तरमधिकदोषोत्पत्तिरूपं तद्विविशेषसमोऽधिकदोषविशेषोपशमः, तेन तुल्यः प्रतिमाकल्पः, प्रस्तुतरोगचिकित्सावस्थान्तरतद्विशेषणसमतुल्यः । तथा तेन रूपेण, या गुरूलाघवचिन्ता तया सहितो युक्तः सामान्यरोगकल्पदोषप्रतिकारापेक्षाऽधिकदोषोपशमचिन्तान्वितः तत्कालापेक्षया प्रतिमाप्रत्तिपत्तिकालापेक्षया ॥२६॥ साम्प्रतं लेशत उक्तमप्यर्थं, दृष्टान्तद्वारेण परिस्फुटतरं प्रतिपिपादयिषुर्दाष्टान्तिकसामर्थ्यमाह - निवकरलूताकिरियाजयणाए हंदि जुत्तरूवाए । अहिट्ठादिसु छेयादि वज्जयंतीह तह सेसं ॥८७३॥ १८/२७ नृपस्य राज्ञः, करे हस्ते, लूता नृपकरलूता, तस्यां क्रियायतनायाम् चिकित्साप्रतियत्नो विशिष्टमन्त्राऽपमार्जनादिरूपः, तस्यां नृपकरलूताक्रियायतनायां प्रस्तुतायाम्, हंत युक्तरूपाया सङ्गतस्वरूपायामुचितायामित्यर्थः । अहिदष्टादिष्वाशीविषदष्टादिषु, गुरुतरदोषेषु नृपस्येति गम्यत। छेदादिभ्यस्तदङ्गच्छेद-दाहादिभ्यो, अधिकतरदोषोपशमहेतुभ्यो वर्जयन्ति परिहरन्ति, इह प्रक्रमे, तथा तेन रूपेण, पूर्वकालभाविनी शेषां मन्त्राऽपमार्जनादिक्रियाम् ॥२७॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy