SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ गाथा-२१-२३ १८-भिक्षुप्रतिमा-पञ्चाशकम् २३५ ग्रामादिभ्यो बहिः ईषत् प्राग्भारगतः भाराकान्तपुरुषवत्, अनिमिषनयनो निमेषरहितलोचनो देवाद्युपसर्गेषु । एकदृष्टिरेकरूपीपुद्गलनिरुद्धदृष्टिः ॥१९॥ संहृत्य चतुराङ्गलान्तरौ, द्वावपि पादावेकीकृत्य, व्याघारितपाणिः प्रलम्बितपाणिः तिष्ठति स्थानं । वाघारितपाणिः लम्बितपाणिर्लम्बितभुजः, अन्ते च पर्यन्ते च, सर्वप्रतिमानाम्, अस्या एकरात्रिक्या, लब्धिलाभो जायते न प्राक्, प्रकर्षवर्तित्वादस्याः, आसां च प्रतिमानां सर्वासामेव प्रतिकर्म तावत् प्रमाणं यावत्प्रतिमानुष्ठानं मासादिसप्तमासान्तम्, वर्षासु च न प्रतिमाप्रतिपत्तिः । प्रथमद्वितीय-तृतीय-चतुर्थप्रतिमानां सम्भवत्येकवर्ष एव परिकर्मानुष्ठाने, तत्त्वतस्तु साऽद्या द्वितीयप्रतिमा सपरिकर्मैकसंवत्सरे सम्भवति, पञ्चम्यास्त्वारभ्याऽन्यसंवत्सरे, परिकर्माऽन्यसंवत्सरे चानुष्ठानम्॥२०॥ एवमागमनीत्या प्रतिमाकल्पे प्रतिपादिते तदयुक्तत्वसम्भावनया विषयविभागमनवगच्छन् पृच्छति - आह न पडिमाकप्पे, सम्मं गुरुलाघवाइचिंत त्ति । गच्छाउ विणिक्खमणाइ न खलु उवगारगं जेण ॥८६७॥ १८/२१ आह प्रतिमाकल्प पूर्वोक्ते, सम्यग् न्यायेन, गुरुलाघवादिचिन्तेति गुणगौरव-दोषलाघवविशिष्ट-फलसाधकत्वाऽऽलोचना, गच्छात् समूहाद् विनिष्क्रमणादि विनिर्गमैकविहारितादि, न खल नैव उपकारकमुपक्कर्तृगुरुसाध्वादीनां, येन कारणेन ॥२१॥ [कथं नोपकारकं? इत्याह, अटी.] - तत्थ गुरुपारतंतं, विणओ सज्झाय सारणा चेव । वेयावच्चं गुणवुड्ढि तह य णिप्फत्ति संताणो ॥८६८॥ १८/२२ तत्र गच्छे, गुरुपारतन्त्र्यं गुर्वधीनत्वम्, विनयस्तदुचितानाम्, स्वाध्यायः पञ्चप्रकारो वाचनादिः सम्पूर्णः, स्मारणा चैव क्वचिद्विस्मृतेः, वैयावृत्यं व्यावृत्तभावकर्मरूपम्, (व्यावृत्तभावस्तत्कर्म वा अटी.) गुणवृद्धिः ज्ञानादिगुणाभिवृद्धिगुर्वादिभ्य एव, तथा च समुच्चये, निष्पत्तिः शिष्याणाम्, तथाविधगुर्वादिभ्य एव, सन्तानः शुभसाध्वादिशिष्यसन्तानः ॥२२॥ दत्तेगादिगहोऽवि हु, तह सज्झायादभावओ न सुहो । अंताइणो वि पीडा, न धम्मकायस्स य सुसिलिटुं ॥८६९॥ १८/२३ एकादिदत्तिग्रहोऽपि तदभिग्रहरूपः । हुर्वाक्यालङ्कारे । तथा स्वाध्याय नैरन्तर्येण स्वाध्यायाद्यभावतः स्वाध्यायध्यानादिविरहेण न शुभो न श्रेयान्, गच्छे तु निरन्तरस्वाध्यायादिसद्भाव उभयप्रतीतः । अन्तादिनोऽप्यन्तप्रान्तरूक्षजीवनभोजिन इत्यर्थः । पीडा बाधा, न [च] नैव
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy