________________
२३४
१८-भिक्षुप्रतिमा-पञ्चाशकम् गाथा-१७-२० नवरंत केवलम्, तत् उक्कटुकशायी,लंगडशायी (=वकाष्ठशायी)मस्तकपार्म्युयोर्भागावष्टम्भमात्रेणाक्षिप्तशरीरः, वज्रसंहननत्वाद् धर्मशुक्लध्यायी दण्डायतको वा दण्डवदायतः दीर्घः शिलादिलग्नशरीरः स्थित्वा ॥१६॥
तच्चा वि एरिस च्चिय, नवरं ठाणं तु तस्स गोदोही । वीरासणमहवा वि हु, ठाएज्जा अंबखुज्जो उ ॥८६३॥ १८/१७
तृतीयापीदृश्येव व्यावर्णितस्वरूपा एव, नवरं केवलम्, स्थानं तु शरीरसंस्थानमासनविशेषरूपम्, तस्य प्रतिमाप्रतिमाप्रतिपन्नस्य, गोदोहिका गोदोहनप्रवृत्तस्याग्रपादतलाभ्यामवस्थानक्रिया, वीरासनम्, अथवापि हु वीराणां वज्रसंहननं नामासनं गुरवः कथयन्ति, यथाहि सिंहासनाधिरूढस्य कस्यचिन्महाप्रभोः कुतश्चित् कारणात्तद्देशात् सिंहासनापनयने कृते, तथैव निष्प्रकम्पस्य व्यवस्थानम्, जानुमात्रासनापरित्यागेन, धर्मशुक्लध्यायिनो महाबलसंहननाऽनिष्प्रकम्पावस्थानमिति भावः । लोके तु भोजनादिषु वीरासनं प्रसिद्धम् । तिष्ठेदवतिष्ठेत् आम्रकुब्जस्त्वीषदवनतः ॥१७॥ एमेव अहोराई, छटुं भत्तं अपाणगं णवरं । गामणगराण बाहि, वाघारियपाणिए ठाणं ॥८६४॥ १८/१८
[एवमेवानन्तरोक्तनीत्या अहोरात्रिक्यहोरात्रपरिमाणा प्रतिमा भवति नवरं केवलमयं विशेष इत्यर्थः षष्ठं भक्तं भोजनं वर्च्यतया यत्र तत् षष्ठभक्तमुपवासद्वयरूपं तपः ह्युपवासद्वये चत्वारि भक्तानि वर्ण्यन्ते, एकाशनेन च तदारभ्यते तेनैव च निष्ठां यातीत्येवं षड्भक्तवर्जनरूपं तदिति, इह च षष्ठमित्यनुस्वारः छन्दार्थम्, अपानकं पानकाहाररहितं तस्यां विधेयमिति शेषः, तथा ग्रामनगरेभ्यःप्रतीतेभ्यः बहिर्बहिस्तात् व्याघारितपाणिके प्रलम्बभुजस्येत्यर्थः । स्थानम्अवस्थानं भवति तत्प्रतिपन्नस्येति, इयं चाहोरात्रिकी त्रिभिर्दिवसैर्याति प्रतिमा अहोरात्रस्यान्ते षष्ठभक्तप्रकरणात्, यदाह-अहोराइया तिर्हि, पच्छा छटुं करेइ । इति गाथार्थः ॥१८॥ अटी.]
एमेव एगराई, अट्ठमभत्तेण ठाण बाहिरओ। ईसीपब्भारगओ, अणिमिसणयणेगदिट्ठीए ॥८६५॥ १८/१९ साहट्ट दो वि पाए, वाघारियपाणि ठायती ढाणं । वाघारि लंबियभुओ, अंते य इमीऍ लद्धि त्ति ॥८६६॥ १८/२० जुम्म। एवमेवाहोरात्रिकी प्रतिमा, अष्टमभक्तेन त्रिरात्रोपवासेन, स्थानमवस्थानं करोति । बाह्यतो