________________
२३३
गाथा-१२-१६ १८-भिक्षुप्रतिमा-पञ्चाशकम् दुस्सहत्थिमाई, तओ भएणं पयं पि णोसरई।। एमादिनियमसेवी, विहरति जाऽखंडिओ मासो ॥८५८॥ १८/१२
दुष्टाः दृप्ताः, अश्वहस्त्यादयो यान् लोको भयाद्विवर्जयति, ततस्तेभ्यो, भयेन भयमोहनीयसम्भवेनात्मपरिणामेन पदमपि चरणविक्रान्तिलक्षणं नो नैव सरति गच्छति, एवमादिनियमसेवी एवं प्रभृत्यागमोक्तनियमकारी, विहरति स्वचर्ययाऽवतिष्ठते । यावदखण्डितो मासः, परिपूर्ण इत्यर्थः ॥१२॥
पच्छा गच्छमईई, एवं दुम्मासि तिमासि जा सत्त । नवरं दत्तिविवड्डी, जा सत्त उ सत्तमासीए ॥८५९॥ १८/१३
पश्चाद् गच्छमत्येति प्रविशति, एवं मासिकप्रतिमावत् द्विमासा त्रिमासा यावत्सप्तमासा । नवरं केवलं दत्तिविवृद्धिदत्तिसम्वर्धनम् । यावत् सप्त तु दत्तयः, सप्तमासायां प्रतिमायाम् ॥१३॥
तत्तो य अट्ठमी खलु, हवइ इहं पढमसत्तराइंदी । तीऍ चउत्थचउत्थेणऽपाणएणं अह विसेसो ॥८६०॥ १८/१४
ततश्च तदनन्तरम्, अष्टमी खलु प्रतिमा भवति, इह प्रथमसप्तरात्रिंदिवा सप्तरात्रिंदिनप्रमाणेत्यर्थः, तस्यामष्टप्रतिमायाम्, चतुर्थ-चतुर्थेन तपःकर्मणा, अशितव्यमिति शेषः, अपानकेन पानाहारविरहितेन अथ विशेषः प्राक्तनप्रतिमाभ्यः ॥१४॥
अस्यामेव कर्तव्यशेषमाह - उत्ताणग पासल्ली, णेसज्जी वा वि ठाणगं ठाउं । सहउवसग्गे घोरे, दिव्वादी तत्थ अविकंपो ॥८६१॥ १८/१५
उत्तानकवदुत्तानस्येव पार्श्वशयवत्( शयितः )निषद्यावान् निषद्यास्थितवत् नितरां शय्यास्थितराजवत्, वाऽपि स्थानकं स्थानविशेषं स्थित्वा कृत्वा, एतान् शरीराकारान् व्यवस्थाप्य, सहते क्षमते, प्रभविष्णु भावतः । उपसर्गान् उपसृज्यते समालिङ्ग्यते यैरात्मभावेन पुरुषैस्त उपसर्गास्तान्, घोरान् दारूणान् दिव्यादीन् दिव्यमानुषादिकृतान्, तत्र तस्यां प्रतिमायाम्, अविकम्पो मनःशरीराभ्यामचलः ॥१५॥ दोच्चा वि एरिस च्चिय, बहिया गामाइयाण नवरं तु । उक्कुडलगंडसादी, दंडाययओ व्व ठाऊणं ॥८६२॥ १८/१६ द्वितीयापि सप्तरात्रिंदिवा, ईदृश्येव व्यावर्णितरूपैव, बहिर्गामादिकानां बहिामनगरादिभ्यः,
18