________________
२३२
१८-भिक्षुप्रतिमा-पञ्चाशकम् गाथा-९-११ आदिश्च मध्यश्चावसानं च त्रिधा। प्राक्क्लृप्तदिवसस्यादिमध्यावसानम्, तस्मिन्, षड्गोचरहिण्डकः षड्वीथीहिण्डको, अयं प्रतिमाप्रतिपन्नः, ज्ञेयो ज्ञातव्यः, ज्ञाते सति 'अयं प्रतिमाप्रतिपन्नो महात्मा विहरति' इत्येवमवजाते, एकरात्रं वस्तु शीलमस्येति ज्ञातैकरात्रवासी । एकं च द्विकं च एकरात्रं द्विरात्रं च अज्ञाते लोकेनाऽविदिते, तस्य वस्तुं कल्पत इति शेषः ॥८॥ जायणपुच्छाणुण्णावणपण्हवागरणभासगो चेव । आगमणवियडगिहरुक्खमूलगावासयतिगो त्ति ॥८५५॥ १८/९
याचन-पृच्छा-ऽनुज्ञापन-प्रश्नव्याकरण-भाषकश्चैव । स हि भगवान् याचनविषयां भाषां प्रयोजनसमुत्पत्तौ भाषते । पृच्छाभाषां मार्गप्रश्नादौ, अनुज्ञापनभाषामवग्रहतृणकाष्ठादौ, प्रश्नव्याकरणभाषां प्रश्नोत्तरकालविभाविनी निरवद्यां वक्ति, आगमनविकटगृहवृक्षमूलकाऽवासकत्रिक इति । आगमनगृहमागन्तुकागारम्, यत्र यत्र कार्पटिकादयो विश्राम्यन्ति विकट[विवृत-अ.टी.]गृहमुपरिष्टादाच्छादितम्, अधश्च कृतावरणं सर्वदिक्प्रवेशयोग्यम् । वृक्षमूले यद् गृहं-साधुनिवासयोग्यम्, न तु यत्र पत्र-पुष्प-फल-बीजानि त्रसाश्च सम्पतन्ति, तस्य शेषसाधूनामपि अयोग्यत्वात्, एतदावासकत्रिकमस्येति तथोच्यते, एतान् वातिगच्छति, प्रविशति, आगमनविकटगृह-वृक्षमूलकाऽऽवासकातिग। [कत्रिक] इति ॥९॥
पुढवीकट्ठजहऽऽत्थिण्णसारसाई न अग्गिणो बीहे । कट्ठाइ पायलग्गं, णऽवणेति तहच्छिकणुगं वा ॥८५६॥ १८/१०
पृथिवी च काष्ठं च यथास्तीर्णसारश्च शिलापट्टादिः, तेषु शयितुं स्थातुं शीलमस्य-पृथिवीकाष्ठ-यथास्तीर्णसारशायी नाग्नेः सकाशाद् बिभेति स्वयमागतात् कायोत्सर्गादिस्थितः सत्त्वसम्पन्नतया, दूरात्तु प्रत्यवायहेतुरग्निरयमिति परिहरत्येवासौ, कर्मसामर्थ्यात्तु तस्मिन्नापतिते केवलं भयं न विधत्ते, काष्ठादि काष्ठं कण्टकादि, पादलग्नं चरणसम्बद्धं नापनयति न विशोधयति, तथाऽक्षिकणुकं वा नयनप्रविष्टः सूक्ष्मपार्थिवाङ्गं वा न त्यजति, अवयवरूपं वा ॥१०॥
जत्थऽत्थमेइ सूरो, न तओ ठाणा पयं पि संचरइ । पायादि न पखालइ एसो वियडोदगेणावि ॥८५७॥ १८/११
यत्र ग्रामारण्यादौ अस्तमेति पर्यन्तं व्रजति, सूर्य आदित्यः, न ततः स्थानात्, पदमपि पादविक्षेपमात्रमपि, सञ्चरति सङ्कामयति । पादादि पादपाणिप्रभृति, न प्रक्षालयति न धावति, एष प्रतिमाप्रतिपन्नो विकृतोदकेनापि प्रासुकसलिलेनापि ॥११॥