________________
गाथा -४-८
१८- भिक्षुप्रतिमा-पञ्चाशकम् कः पुनः साधुः प्रतिमाद्वादशकस्य प्रतिपत्ता भवतीत्याह -
पडिवज्जइ एयाओ, संघयणधिईजुओ महासत्तो । पडिमाउ भावियप्पा, सम्मं गुरुणा अणुण्णाओ ॥८५० ॥ १८/४
प्रतिपद्यतेऽभ्युपगच्छति, एताः प्रतिमाः संहनन- धृति - युतः प्रशस्तसंहनन - दृढधृतिसमन्वितो, महासत्वा महाध्यवसायोऽविक्लवत्त्व महाध्यवसायसम्पन्नो वा, प्रतिमा: प्रस्तुताः, भावितात्मा धर्मवासितान्तरात्मा, सम्यग् न्यायेन गुरुणा, भगवता श्रीसङ्खेन वा, अनुज्ञातः कृतानुज्ञः ॥४॥
गच्छे च्चिय निम्माओ, जा पुव्वा दस भवे असंपूण्णा । नवमस्स तइयवत्थू, होइ जहण्णो सुयाभिगमो ॥८५१ ॥ १८/५
गच्छ एव समूह एव, निर्मातो निष्पन्नो, यावत् पूर्वाणि दश भवेयुः असम्पूर्णान्युत्कर्षेण, नवमस्य प्रत्याख्यानपूर्वस्य तृतीयवस्त्वाचारवस्तु भवति जघन्यो अल्पीयान् श्रुताभिगमः श्रुतपरिज्ञानं श्रुतसम्पत्तिरित्यर्थः ॥५॥
वोसट्टचत्तदेहो, उवसग्गसहो जहेव जिणकप्पी ।
सण अभिग्गहीया, भत्तं च अलेवडं तस्स ॥८५२ ॥ १८/६
२३१
२
व्युत्सृष्टः परिकर्माभावेन, त्यक्तो भावतो ममत्वपरित्यागेन, देहो येन स तथा । उपसर्गान् दिव्य-मानुष - तिर्यक्कृतानाऽत्मसंवेदनीयान् सहत इत्युपसर्गसहः । यथैव यद्वत् जिनकल्पी जिनकल्पप्रतिपन्नस्तद्वदुपसर्गसह इत्यर्थः । एषणा सप्तविधा, 'असंसृष्टा, संसृष्टा, उद्धृता, 'अल्पलेपा, ' अवगृहीता, प्रगृहीता, उज्झितधर्मा, तत्राद्ययोर्द्वयोरग्रहः पञ्चास्तु ग्रहः, पुनरपि विवक्षितदिवसे द्वयोरभिग्रहः, एका भक्ते, एका पाने, अभिगृहीता प्रतिपादितन्यायेन, भक्तं चान्न च अलेपकृत् तस्य समयप्रसिद्धम् ॥६॥
५
गच्छा विणिक्खमित्ता, पडिवज्जइ मासियं महापडिमं । दत्तेग भोयणस्सा, पाणस्स वि एग जा मासं ॥८५३॥ १८/७
गच्छात् समुदायात् विनिष्क्रम्य विनिर्गत्य, प्रतिपद्यतेऽभ्युपगच्छति, मासेन निर्वृतां मासिकीं महाप्रतिमां, दत्तिरेकाविच्छेदप्रदानरूपा, भोजनस्यान्नस्य, पानस्याप्येका, यावन्मासं मासमभिव्याप्य ॥७॥
आदीमज्झवसाणे, छग्गोयरहिंडगो इमो णेओ ।
णाएगरायवासी, एगं च दुगं च अण्णाए ॥८५४ ॥ १८/८