SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ॥ अष्टादशं भिक्षुप्रतिमा-पञ्चाशकम् ॥ स्थितास्थितकल्पप्रतिपादितगुणव्यवस्थितानामेव प्रतिमाकल्पयोग्यतोपपत्तेस्तत्प्रत्यासत्त्या प्रतिमाकल्पप्रतिपादनायाह - नमिऊण वद्धमाणं, भिक्खुप्पडिमाण लेसओ किंपि । वोच्छं सुत्ताएसा, भव्वहियट्ठाऍ पयडत्थं ॥ ८४७ ॥ १८/१ नत्वा नमस्कृत्य, कल्याण - विजयाभ्यां वर्धमानं भगवन्तम्, भिक्षुप्रतिमानां लेशतः सङ्क्षेपेण, किमपि किञ्चिद्, वक्ष्येऽभिधास्ये, सूत्रादेशादागमादेशाद् भव्यहितार्थाय भव्यहितप्रयोजनाय, प्रकटार्थं परिस्फुटार्थम् ॥१॥ बारस भिक्खूपडिमा, ओहेणं जिणवरेहिं पण्णत्ता । सुहभावजुया काया, मासादीया जतो भणियं ॥८४८ ॥ १८/२ द्वादशभिक्षुप्रतिमाः समयप्रसिद्धाः, ओघेन सामान्येन, जिनवरैर्भगवद्भिः, प्रज्ञप्ताः कथिताः शुभभावयुताः कायाः शरीराणि, मासादिका मास आदिर्यासां ताः, तथा, यतो यस्माद् भणितमुक्तम् ॥२॥ यदुक्तं तद मासादी सत्तंता, पढमाबितितइयसत्तराइदिणा । अहराइ एगराई, भिक्खूपडिमाण बारसगं ॥८४९॥ १८/३ मासादयः प्रतिमाः, सप्तान्ताः सप्तमासान्ताः, सप्त भवन्ति, प्रथमैकेन मासेन । द्वितीया द्वाभ्याम् । तृतीया त्रिभि: । चतुर्थी चतुर्भिः । पञ्चमी पञ्चभिः । षष्ठी षड्भिः । सप्तमी सप्तभिः र्मासैः। अष्टमी पुनः प्रथमसप्तरात्रदिना । नवम्यपि द्वितीयसप्तरात्रिदिना । दशम्यपि तृतीयसप्तरात्रिदिना । एकैकाः सप्तभिर्दिवसैः परिपूर्णा भवन्ति । अहोरात्रिकीऽअहोरात्रद्वयेन एकरात्रिः, एकरात्रिकी रात्रिमात्रेण, भिक्षुप्रतिमानां द्वादशमेतद् भवति [१. पढमा - बिइ-तइय-सत्तराइदिण त्ति - सप्तानामुपरि प्रथमा द्वितीया तृतीया च सप्त रात्रिंदिवानि यस्यां सा । अ. टी. २. अहश्च रात्रिश्च-तयोः समाहारः, अहोरात्रं दिवसनिशं, तस्य द्वयम् युगलम् इति अहोरात्रद्वयं दिवस: निशा च इति द्वे एव । ] ॥३॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy