________________
गाथा - ३५-३८
१६- प्रायश्चित्तविधि-पञ्चाशकम्
२१३
समयोक्तफला कर्मक्षयश्चासौ अनुबन्धव्यवच्छेदश्चेति कर्मक्षयानुबन्धव्यवच्छेदौ ताभ्याम् कर्मक्षयाऽनुबन्धव्यवच्छेदाभ्यां सर्वस्यैवापूर्वकरणं श्रेणिश्चेतिभावः ॥३४॥
एवं निकाइयाण वि, कम्माणं भणियमेत्थ खवणं ति ।
तं पिय जुज्जइ एवं, तु भावियव्वं अतो एयं ॥ ७७९ ॥ १६ / ३५
एवं स्थिते, निकाचितानामपि निकाचनाकरणाऽवस्थापितानामपि, कर्मणां ज्ञानावरणादीनां भणित प्रतिपादितम्, अत्र श्रेण्यां क्षपणमिति क्षयकरणम् । यदित्यनुक्तमप्यर्थादाक्षिप्यते तदपि चक्षणम्, युज्यते घटते, एवं त्वपूर्वकरणादिषु भावप्राधान्ये श्रेण्यां हि यन्निकाचितकर्मक्षपणमुक्तं तत् तथाविधशुभभावमन्तरेण, नान्यतः कुतश्चिद् भवितुमर्हति । तस्मात् स एव शुभभावः, कर्मक्षयात् करणमित्यगन्तव्यम्। भावयितव्यं भावनीयम् अत एतस्माद्धेतोः शुभभावलक्षणात्, एतत्प्रायश्चित्तं दोषविशुद्धिहेतुः, न विशिष्टभावमन्तरेण प्रायश्चित्तमपि स्वकार्यकारि सम्पद्यते, तस्माच्छ्रेयोऽर्थिना शुभभाव एवाश्रयितुं युक्तस्तदनुगतस्यैव प्रायश्चित्तानुष्ठानस्यापि स्वफलसाधकत्वात् ॥३५॥ अत्राह शिष्यः
1
विहियाणुट्ठाणंमी, एत्थं आलोयणादि जं भणियं ।
तं कह पायच्छित्तं, दोसाभावेण तस्स त्ति ? ॥७८०॥ १६/३६
अह तंपि सदो चिय, तस्स विहाणं तु कह णु समयम्मि ? | न य नो पायच्छित्तं, इमं पि तह कित्तणाओ उ ॥ ७८१॥ १६ / ३७ जुम्मं ।
विहितानुष्ठाने चैत्यसाधर्मिकवन्दनादौ, अत्राधिकारे, आलोचनादि, आदिशब्दादीर्यापथिकाप्रतिक्रमण - परिग्रहः यद् भणितं यदुक्तम्, तत्कथं प्रायश्चित्तं दोषाभावेन दोषविरहेण, तस्येति विहितानुष्ठानस्य, चैत्यवन्दनादेः ||३६||
अथ तदपि विहितानुष्ठानमपि, सदोषमेव सापराधमेव, तस्य विहितानुष्ठानस्य, विधानं विधिरूपदेशः, कथं नु समये सिद्धान्ते नैव विधिः प्राप्नोतीत्यर्थः । न च नो प्रायश्चित्तं किन्तु प्रायश्चित्तम् इदमप्यालोचनादि । तथाकीर्तनात्तु प्रायश्चित्तत्वेन प्रतिपादनादेव ॥३७॥
सूरिराह :
भण्णइ पायच्छित्तं, विहियाणुाणगोयरं चेयं ।
विकिंतु सुहुमा, विराहणा अत्थि तीऍ इमं ॥७८२॥ १६/३८ भण्यते अत्रोत्तरम्, प्रायश्चित्तं विहितानुष्ठानगोचरं विहितानुष्ठानविषयम् चैतत् आलोचनादि,