________________
_
गाथा-३९-४४
२१४
१६-प्रायश्चित्तविधि-पञ्चाशकम् सत्यमेतत्, किन्तु तत्रापि च विहितानुष्ठाने, किन्तु सूक्ष्मा स्वल्पा विराधना ईर्यापथरूपा, अस्ति विद्यते, तस्यां सूक्ष्मविराधनायां सत्याम्-[अतस्तस्या विराधनायाः शुद्ध्यर्थं । इदं....अटी.] इदं आलोचनादि प्रायश्चित्तम् ॥३८॥
एतदेवागमेन द्रढयन्नाह - सव्वावत्थासु जओ, पायं बंधो भवत्थजीवाणं । .. भणितो विचित्तभेदो, पुव्वायरिया तहा चाहू ॥७८३॥ १६/३९
सर्वावस्थासु सराग-वीतराग-चेष्टारूपासु, यतो यस्मात्, प्रायो बाहुल्येन बन्धः सामान्यकर्मबन्धः, भवस्थजीवानां संसारस्थसत्त्वानां, प्रायोग्रहणमयोगिकेवलिव्यापारनिरासार्थम्। भणितः प्रतिपादितो, विचित्रभेदा नानाप्रकारः, पूर्वसूरयः पूर्वाचार्याः तथा चाहुः ब्रुवते ॥३९॥
सत्तविहबंधगा होति पाणिणो आउवज्जियाणं तु । तह सुहुमसंपराया, छव्विहबंधा विणिद्दिट्टा ॥७८४॥ १६/४० मोहाउयवज्जाणं, पगडीणं ते उ बंधगा भणिता । उवसंतखीणमोहा, केवलिणो एगविहबंधा ॥७८५॥ १६/४१ ते पुण दुसमयट्ठितियस्स बंधगा न पुण संपरायस्स । सेलेसीपडिवण्णा, अबंधगा होति विण्णेया ॥७८६॥ १६/४२ अपमत्तसंजयाणं, बंधठिती होति अट्ठ उ मुहुत्ता। उक्कोसेण जहण्णा, भिण्णमुहुत्तं तु विण्णेया ॥७८७॥ १६/४३ जे उ पमत्ताणाउट्टियाएँ बंधंति तेसि बंधठिती । संवच्छराणि अट्ठ उ, उक्कोसियरा मुहत्तंतो ॥७८८॥ १६/४४ पंचगं।
सप्तविधबन्धकाः भवन्ति प्राणिनः सत्त्वा, आयुर्वर्जितानां च प्रकृतीनामिति गम्यते । तथा सूक्ष्मसम्परायास्तद्गुणस्थानवर्तिनः षड्विधबन्धा विनिर्दिष्टाः कथिताः ॥४०॥
मोहायुर्वर्जानां प्रकृतीनां कर्मप्रकृतीनाम्, ते तु सूक्ष्मसम्परायाः, बन्धका भणिता उक्ताः उपशान्तमोहाः क्षीणमोहाः केवलिन एते त्रयोऽपि एकविधबन्धाः शातावेदनीयबन्धका एव
॥४१॥