________________
२१२
१६-प्रायश्चित्तविधि-पञ्चाशकम् गाथा-३१-३४ अधिकस्तत्प्रतिपक्षभूतो दोषविनिर्घातनसमर्थः, स शुभभावः, इह प्रक्रमे, भवति विशिष्टोऽतिशयवान् । न नैव, ओघतः सामान्येन, शुभभावमात्रान्तःपाती, समयनीत्यागमनीत्या ॥३०॥
व्यतिरेकदोषमाह - इहरा बंभादीणं, आवस्सयकरणतो उ ओहेणं। पच्छित्तं ति विसुद्धी, ततो न दोसो समयसिद्धो ॥७७५॥ १६/३१ ___ इतरथाऽन्यथा, ब्राह्मादीना ब्राह्मी-सुन्दरीप्रभृतीनां पूर्वजन्मनि, आवश्यककरणतस्त दैवसिकादिप्रतिक्रमणविधानात्, एव ओघेन सामान्येन । प्रायश्चित्तमिति हेतोः विशुद्धिर्दोषविशुद्धिः, तत आवश्यकप्रायश्चित्तादेव न दोषः प्राप्नोति न भवति इत्यर्थः । समयसिद्धः सिद्धान्तप्रसिद्धः, स्त्रीनामगोत्रकर्मबन्धलक्षणः, अथ च प्रतिपादित एवासौ तस्मान्न शुभभावमात्राद्दोषविशुद्धिः ॥३१॥
उपसंहरन्नाह - ता एयंमि पयत्तो, कायव्वो अप्पमत्तयाए उ । सतिबलजोगेण तहा, संवेगविसेसजोगेण ॥७७६॥ १६/३२
तत् तस्मात्, एतस्मिन् विशिष्टशुभभावे, प्रयलः प्रकर्षः प्रकृष्टः यत्नः, कर्तव्यो विधेयः, अप्रमत्ततया त्वप्रमत्ततयैव, स्मृतिबलयोगेन स्मृतिसामर्थ्यव्यापारेण, तथा संवेगविशेषयोगेन संवेगातिशयसम्बन्धेन ॥३२॥
विशिष्टभावमेवं सकलमुपदर्शयन्निदमाह - एतेण पगारेणं, संवेगाइसयजोगतो चेव ।
अहिगयविसिट्ठभावो, तहा तहा होति नियमेणं ॥७७७॥१६/३३ __एतेन प्राक्प्रस्तुतेन, प्रकारेण स्मृतिबलयोगादिना संवेगातिशययोगतश्चैव, संवेगप्रकर्षसम्बन्धाच्चैव, अधिकृतविशिष्टभावो दोषोन्मूलनसमर्थः। तथा तथा जीववीर्यातिशयेन, भवति सम्पद्यते, नियमेनावश्यंभावेन ॥३३॥
तत्तो तब्विगमो खलु, अणुबंधावणयणं व होज्जाहि । जं इय अपुव्वकरणं, जायति सेढी य विहियफला ॥७७८॥ १६/३४
ततः शुभभावात् तद्विगमः खलु अशुभाध्यवसायजातबन्धविगम एव, अनुबन्धापनयनं वा भवेत् शुभभावादेवाऽप्रकृष्टरूपात् कर्मणामनुबन्धभेदो भवेत्, न सर्वथा तद्विगमः । यद् यस्मात् इत्येवम्, अपूर्वकरण श्रेण्यन्तर्गतं जायते प्रादुर्भवति, श्रेणिश्चोपशम-क्षपकश्रेणिरूपा विहितफला