________________
२०७
गाथा-१२-१६ १६-प्रायश्चित्तविधि-पञ्चाशकम् वार्यते निषिध्यते पञ्चमे व्रणे व्रणिनः पुरुषस्य ॥११॥
रोहेति वणं छठे, हितमितभोजी अभुंजमाणो वा । तत्तियमेत्तं छिज्जति, सत्तमए पूइमंसादी ॥७५६॥ १६/१२
रोहयति निराश्रवीकरोति, व्रणं क्षतं षष्ठे द्रव्यव्रणस्थाने, हितमितभोजी पथ्यपरिमिताहारभोजी, अभुञ्जाना वा व्रणचिकित्सानुगुण्येन । तावन्मानं तावत्प्रमाणं छिद्यतेऽपनीयते, सप्तमके व्रणे, पूतिमांसादि दूषितमांसमेदप्रभृति ॥१२॥ तह वि य अठायमाणे, गोणसखइयादि रप्पुए वा वि । कीरति तदंगछेदो, सअट्ठितो सेसरक्खट्ठा ॥७५७॥ १६/१३
तथापि चवमपि च विधीयमाने परिकर्मणि अतिष्ठति दोषव्याप्त्या प्रभवति, गोनसखादितादा गोनसभक्षितादौ, वातप्रधानविषे रेफुके वापि वल्मीकरोगे, [क्रियते] तदङ्गच्छेदो दूषिताङ्गच्छेदः, सहास्थीभिर्वर्तते सास्थिकः। शेषरक्षार्थं दूषिताङ्गरक्षार्थम् ॥१३॥
एतत्साम्येन भावव्रणोपदर्शनायाह - मूलुत्तरगुणरूवस्स ताइणो परमचरणपुरिसस्स । अवराहसल्लपभवो, भाववणो होति णायव्वो ॥७५८॥ १६/१४
मूलोत्तरगुणरूपस्य अहिंसापिण्डविशुद्ध्यादिरूपस्य, तायिनस्त्रातुः संसारपरित्राणहेतुभूतस्य, परमचरणपुरुषस्य चरणं पुरुष इव चरणपुरुषः, परमश्चासौ चरणपुरुषश्चेति समासः तस्य, अपराधशल्यप्रभवा दोषशल्यनिमितः भावव्रणो भावक्षतरूपः, भवति ज्ञातव्योऽवबोद्धव्यः ॥१४॥
एसो एवंरूवो, सविगिच्छो एत्थ होइ विण्णेओ। सम्मं भावाणुगतो, णिउणाए जोगिबुद्धीए ॥७५९॥ १६/१५
एष भावव्रणः, एवंरूप एवंलक्षणः, सचिकित्सः सप्रतीकारः अत्र प्रक्रमे, भवति विज्ञेयोऽवसेयः, सम्यग्भावानुगतोऽभिप्रायान्वितो, निपुणया सूक्ष्मया, योगिबुद्ध्या योगिबोधेन । योगिनो हि मतिरविपरीतस्वरूपा भवति, तेन यथास्वभावं वस्तु प्रत्येति, न तत्र विपर्ययसम्भवः ॥१५॥ भिक्खायरियादि सुज्झति, अइयारो कोइ वियडणाए उ । बितिओ उ असमितो मि त्ति कीस? सहसा अगुत्तो वा ॥७६०॥ १६/१६