________________
२०६
१६-प्रायश्चित्तविधि-पञ्चाशकम् ___ गाथा-८-११ द्रव्यव्रणोदाहरणेन वक्ष्यमाणेन योजितं साम्यमानीतमेव प्रायश्चित्तम्, विद्वद्भिस्तज्जैः समये सिद्धान्ते, भावव्रणचिकित्सायां प्रस्तुतायां सम्यगिति सम्यक्स्वरूपं यतो यस्माद् इदं प्रत्यक्षरूपं यत्नं भणितमुक्तम् [श्रीभद्रबाहुस्वामिभिः - अटी.] ॥७॥
यदुक्तं समये तदाह - दुविहो कायंमि वणो, तब्भव आगंतुगो य णायव्वो । आगंतुगस्स कीरति, सल्लुद्धरणं न इतरस्स ॥७५२॥ १६/८ द्विविधो द्विप्रकारः, काये शरीरे, व्रणः क्षतरूपः तस्मिन्नेव काये भवतीति तद्भवः कायसमुत्थो गण्ड-पिटकादिः, आगन्तुकश्च कण्टकक्षतादिः ज्ञातव्यः । आगन्तुकस्य कण्टकादिक्षतस्य क्रियते विधीयते शल्योद्धरण कण्टकाद्युद्धाररूपं नेतरस्य शरीरसम्भवस्य, तस्मिन्नाऽऽगन्तुकशल्याभावात् ॥८॥
द्रव्यव्रणक्रियोपदर्शनायाह - तणुओ अतिक्खतुंडो, असोणितो केवलं तयालग्गो । उद्धरिउं अवउज्झइ, सल्लो न मलिज्जइ वणो य ॥७५३॥ १६/९
तनुकः स्वरूपेण कृशः, अतीक्ष्णतुण्डोऽतीक्ष्णमुख: अशोणितोऽरुधिरप्राप्तो नाद्यापि शोणितं संस्पृशति, केवलं त्वचि त्वग्मात्रे लग्नः । उद्धृत्याऽऽकृष्य, अपोह्यतेऽपास्यते वा, बहिः प्रक्षिप्यत इति यावत् । शल्यः कण्टकादिभिः । शल्यशब्दः पुंल्लिङ्गोऽप्यस्ति प्राच्यानाम्, न मृद्यते व्रणश्च तावन्मात्रेणैवादोषहेतुरिति कृत्वा ॥९॥
लग्गुद्धियम्मि बीए, मलिज्जइ परमदूरगे सल्ले । उद्धरणमलणपूरण, दूरयरगए उ ततियगम्मि ॥७५४॥ १६/१०
लग्नोद्धते द्वितीये व्रणे, मृद्यते परं स एवेति गम्यते । अदूरगे शल्येऽदूरगामिनि शल्ये, लग्नोद्धृते यदि उद्धरणमर्दनपूरणानि शल्योद्धारव्रणमर्दनकर्णमलपूर्णानि क्रियन्ते । दूरतरगते दूरतरावगाढे तृतीये व्रणे ॥१०॥
मा वेअणा उ तो उद्धरित्तु गालिंति सोणिय चउत्थे । रुज्झइ लहुं ति चेट्ठा, वारिज्जइ पंचमे वणिणो ॥७५५॥ १६/११
मा वेदना तु मा भूद् वेदना पुनः, ततः तद् उद्धृत्य शल्यं गालयन्ति निष्कासनं क्रियते, शोणित रक्तम्, कियदपि चतुर्थे व्रणे अवरुध्यते व्रणेन लध्विति शीघ्रमेव चेष्टा प्रयासरूपा